________________
४९५
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥४९॥
व्याख्या-तीर्थङ्करा गन्धस्य सुरभ्यसुरभिपुद्गलस्य ग्रहणं ग्राहकं घ्राणं वदन्ति, तथा घ्राणस्य नासिकाया गन्धं ग्रहणं ग्राह्यं वदन्ति, एवं गन्धघ्राणयोर्ग्राह्यग्राहकभावः कथितः, तत्र मनोज्ञं रागस्य हेतुमाहुः, अमनोज्ञं च द्वेषस्य हेतुमाहुः ॥४९।।
गंधस्स जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे ओसहिगंधगिद्धो, सप्पे बिलाओ इव निक्खमंतो ॥५०॥
व्याख्या-यो मनुष्यो गन्धेषु तीव्रां गृद्धि गन्धद्रव्यपरिग्रहादिभावाद् अत्यासक्त्यादेश्योपैति गन्धप्रियकुमारवत् , यथा स पुष्पकन्दुकं जिघ्रन्निलिकासर्पण दष्टः, सुबन्धुवत् , यथा सुबन्धुश्चाणक्यकृतवासयोगसुरभितो विषयासक्तस्तद्भोगे मृतिभीत्या रङ्कीभूय देशान् बभ्राम । अकालिकं विनाशं कष्टं चाप्नोति रागातुरः सन् , यथा औषधयो नागदमन्याद्यास्तासामत्यन्तप्रियेण गन्धेन गृद्धः सर्पो भोगाय बिलान्नि:क्रामन् विनाशं कष्टं चाप्नोति ।।५०॥
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, ण किंचि गंधो अवरज्झई से ॥५१॥
व्याख्या-यश्चापि जन्तुर्यस्मिन् क्षणेऽमनोज्ञं गन्धमाघ्राय तीव्र द्वेषं समुपैति स जीवस्तस्मिन्नेव क्षणे स्वकीयेन दुर्दान्तघ्राणेन्द्रियदोषेण दुःखमुपैति, तस्मिन् क्षणे न किञ्चिद् गन्धस्तस्यापराध्यति, तस्य घ्राणेन्द्रियस्यैवायं दोषोऽस्ति । यच्च गाढतीव्रौषधादिगन्धो नरं पीडयति, तेनेह नाधिकारः, किन्तु कुगन्धमात्रेणैव देहमलादेरधिकारः ॥५१॥
एगतरत्तो रुइमि गंधे, अतालिसे से कुणइ पदोसं । दुक्खस्स संपीडमुवेइ बाले, न लिप्पइ तेण मुणी विरागे ॥५२॥
व्याख्या-यो मनुष्यो रुचिरे मनोज्ञे गन्धे एकान्तरक्तोऽत्यन्तं रागवान् भवति सोऽतादृशेऽमनोज्ञे गन्धे प्रद्वेषं करोति, तदा स बालो दुःखस्य पीडामसातामुपैति, तेन हेतुना निरागी मुनिस्तेन रागद्वेषोद्भवेन दुःखेन न लिप्यते ॥५२॥
गंधाणुयासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहि ते परितावेइ बाले, पीलेइ अत्तगुरू किलिटे ॥५३॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org