________________
४९४
श्रीउत्तराध्ययनदीपिकाटीका - २
गीतादि श्रव्यं ? वीणादिस्वामी च कथं वञ्चयः ? इत्यादि चिन्तया दुःखी, प्रयोगकाले तु मृषाभाषाप्रस्तावे तु माऽयं मे कूटं जानात्विति दुःखी, एवंविधोऽसौ जनो दुरन्तो दुर्गत्यन्तरहितः स्यात्, एवं चाऽदत्तानि समाददानः शब्देऽतृप्तः सन् स दुःखी भवेत्, अनिश्रो दोषवत्त्वेन पुण्यनिश्राहीनः || ४४ ||
7
सद्दाणुरत्तस्स नरस्स एवं कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कर ण दुक्खं ॥४५॥ व्याख्या - शब्दानुरक्तस्य नरस्य एवं पूर्वोक्तप्रकारेण कुतः कदाचित्किञ्चिदपि सुखं भवेत् ? न भवेदेव । तत्र शब्दानुरागे उपभोगेऽपि अतृप्तिलाभरूपं क्लेशदुःखमेव तस्य स्यात्, यस्य भोगस्य कृते स आत्मनो दुःखं निवर्त्तयत्युत्पादयति ॥ ४५ ॥ एमेव सद्दमि गओ पदोसं, उवेइ दुक्खोहपरंपराओ ।
पट्ठचित्तो उ चिणाइ कम्मं, जं से दुहं होइ पुणो विवागे ॥४६॥
व्याख्या–एवमेवाऽनेन प्रकारेणैव यथा मनोज्ञशब्दोपरि रागमुपगतस्तथाऽमनोज्ञे शब्दे प्रद्वेषं गतो जीवो दुःखौघपरम्परामुपैति, ततश्च प्रदुष्टचित्तो द्वेषोपहतचित्तः सन् स कर्माष्टविधं चिनोति बध्नाति, यत् कर्म च तस्य पुरुषस्य पुनर्विपाके इहामुत्र च दुःखं दुःखदायि भवतीति, एवं तत्र हिंसाद्याश्रवा अपि ज्ञेयाः खरविस्तरभाषकादिषु ॥ ४६ ॥ सवितो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
लिप्प भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥४७॥ व्याख्या - यो जनः शब्दे विरक्तोऽरागोऽद्वेषश्च भवति स विशोकः शोकरहित: सन् भवमध्ये वसन्नपि एतया पूर्वोक्तदुःखौघपरम्परया न लिप्यते किमिव ? जले वसदपि पुष्करिणीपत्रमिव ||४७ ||
एवं त्रयोदश सूत्राणि गन्धविषयमाश्रित्यापि ज्ञेयानि, तत्र
घाणस्स गंधं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु ।
तं दोसहेडं मणुण्णमाहु, समो उ जो तेसु स वीयराओ ॥ ४८ ॥
व्याख्या - जिना घ्राणस्य नासिकाया ग्रहणं विषयं गन्धं वदन्ति, मनोज्ञं गन्धं च तं रागहेतुमाहुः, अमनोज्ञं च तं द्वेषहेतुमाहुः, तेषु मनोज्ञाऽमनोज्ञेषु गन्धेषु च यो समस्तुल्यवृत्तिः स वीतरागो ज्ञेयः ॥४८॥
Jain Education International 2010_02
"
For Private & Personal Use Only
www.jainelibrary.org