________________
४९३
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
व्याख्या-शब्दानुगाशामनुगतो जीवश्चराऽचरान् हिनस्त्यनेकरूपान् जीवान् , दीपादिनिर्मिती, वाद्यादिकृतौ, उल्ललन्नादौ, गात्रभूषादिवस्त्रादिस्नानादिसौधादिनिर्माणैश्च, तथैव चित्रैर्नानाप्रकारैः स्वपरकायशस्त्राद्युपायैर्जीवान् परितापयति, आक्रमणप्रेरणादिना पीडयत्येकदेशेन मार्जारादीन् सीत्कारयन् , स बालोऽज्ञ आत्मार्थपरायणो रागद्वेषोपहतश्च ॥४०॥
सद्दाणुवाएण परिग्गहेण, उप्पायणे रक्खणसंनियोगे । वए विजोगे य कहिं सुहं से, संभोगकाले य अतित्तलाभे ॥४१॥
व्याख्या-शब्दानुतापेन परिग्रहेण शब्देच्छयैव परिग्रहभावेन तदुत्पादने उपार्जने, रक्षणे वाद्यगाथकादीनां धारणे, सम्प्रयोगे स्वाऽन्यकार्येषु सम्यग्व्यापारणे, व्यये विनाशे विरहे च क्व सुखं तस्य ? सम्भोगकाले शब्दोपभोगप्रस्तावे चाऽतृप्तिलाभे सति क्व सुखं? रागिणां शब्दरूपादौ सदाऽतृप्तिरेव ॥४१॥
__तथा देवानां कायस्पर्शशब्दरूपमनोभवा विषयास्ततः शब्दरूपविषयेष्वपि मैथुनदोषो ज्ञेयः, तथा
सद्दे अतित्ते य परिग्गहंमि, सत्तोवसत्तो ण उवेइ तुढेि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययइ अद्दत्तं ॥४२॥
व्याख्या-शब्दे अतृप्तश्च परिग्रहे तद्विषयमूर्छया च सक्तः सामान्येन, उपसक्तश्च गाढं नोपैति तुष्टिं, अतुष्टिदोषेण शब्दाकाङ्क्षया च दुःखी सन् परस्य अदत्तं शब्दवद्वस्तु लोभाविलः सन्नादत्ते ॥४२॥
तण्हाभिभूयस्स अदत्तहारिणो, सद्दे अतित्तस्स परिग्गहे य । मायामुसं वड्डइ लोभदोसा, तत्थावि दुक्खा न विमुच्चइ से ॥४३॥
व्याख्या-तृष्णाभिभूतस्याऽदत्तहारिणः शब्देऽतृप्तस्य जनस्य परिग्रहे च मायामृषा वर्द्धते लोभदोषाददत्तं लात्वा तद्गोपनेन, तत्रापि च स दुःखान्न विमुच्यते, रक्षेः कोऽपि स्तेनं मां वक्तीति ॥४३॥
मोसस्स पच्छा य पुरत्थओ य, पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंते, सद्दे अतित्तो दुहिओ अणिस्सो ॥४४॥
व्याख्या-शब्दविषयगृद्धः केनापि वारितो मया न श्रुतमिदं गीतादि, इदं वीणादि च नात्तं मयेत्यात्मानमपलन् मृषायाः पश्चात् कथं कूटं मया स्थाप्यमिति, पुरस्ताच्च कथं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org