________________
४९२
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-श्रोत्रस्य शब्दं ग्रहणं विषयं वदन्ति जिनाः, तं मनोज्ञं काकलीगीत्यादि, अमनोज्ञं च खरस्वरविस्वराद्यं रागद्वेषयोर्हेतुमाहुजिनाः, ततः शुभाऽशुभशब्दयोर्यः समः स वीतरागः सुखी स्यात् ॥३५॥
सदस्स सोयं गहणं वयंति, सोयस्स सदं गहणं वयंति । रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुण्णमाहु ॥३६॥
व्याख्या-शब्दस्य श्रोत्रं ग्रहणं ग्राहकं वदन्ति, श्रोत्रस्य च ग्राह्यं शब्दं वदन्ति, ततस्तत् श्रोत्रप्रसन्नं हर्षयुज् रागहेतुं, अप्रसन्नं सखेदं च द्वेषहेतुं, इति कथयन्ति ॥३६॥
सद्देसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ से विणासं । रागाउरे हरिणमिए व मुद्धे, सद्दे अतित्ते समुवेइ मच्चुं ॥३७॥
व्याख्या-रागातुरो हरिणमृग इव मुग्धः शब्देऽतृप्तः सन् समुपैति मृत्यु, मृगशब्द: सामान्येन पशुवाची, ततो हरिणनाम्ना मृगो हरिणमृगः, (पाठान्तरे-लुब्धोलुब्धकगीत्याकृष्टस्तस्मान्मृत्युकष्टाऽनभिज्ञः) एवं यो जनः शब्देषु तीव्रां गृद्धिमुपैति सोऽपि अतृप्तः सन्नकाले विनाशं मृत्युं प्राप्नोति ॥३७॥
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, ण किंचि सदं अवरज्झई से ॥३८॥
व्याख्या-यश्चापि अशुभशब्दे यस्मिन्नेव क्षणे तीव्र द्वेषं समुपैति तस्मिन्नेव क्षणे स दुःखमुपैति, दुर्दान्तमनसो दोषेण स्वकेन स जन्तुस्तादृग् दुःखी स्यात् , न किञ्चिच्छब्दस्तस्मै अपराध्यति ॥३८॥
एगंतरत्तो रुइमि सद्दे, अतालिसे से कुणई पदोसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥३९॥
व्याख्या-यो रुचिरे शब्दे एकान्तरक्तोऽत्यन्तमासक्तः सोऽतादृशेऽमनोज्ञे शब्दे प्रद्वेषं कुरुते, एवं च स बालो दुःखस्य सम्पीडामुपैति, मुनिस्तु विरागस्तेन स कुशब्दोत्थदुःखेन न लिप्यते ॥३९।।
सद्दाणुयासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहि तं परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिटे ॥४०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org