________________
४९१
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् रागिवाक्-आलोए च्चिय सा तेण, पिययमा नेहनिब्झरमणेणं ।
आवासिय व्व अवगूहिय व्व रमिय व्व पीय व्व ॥१॥[] यथा रूपसम्भोगस्तथा स्त्रीशब्दादिसम्भोगा अपि मैथुनमेव ज्ञेयाः ॥३१॥
निगमयितुमाहरूवाणुरत्तस्स णरस्स एवं, कत्तो सुहं होज्ज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवित्तए जस्स कए ण दुक्खं ॥३२॥
व्याख्या-रूपानुरक्तस्य नरस्यैवं कुतः सुखं भवेत् कदाचित्किञ्चिदपि ? सर्वदा दुःखमेव भवतीत्यर्थः, यतस्तत्र रूपानुरागे उपभोगेऽपि क्लेशदुःखमतृप्तिः स्यात् ,बाधाकृतं दुःखमेव विशिनष्टि–स निवर्त्तयत्युत्पादयति यस्योपभोगस्य कृते, णं अलङ्कारे, दुःखमात्मनः ॥३२॥
द्वेषस्याऽनर्थहेतुत्वमाहएमेव रूवंमि गओ पदोसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो य चिणाई कम्मं, जं से दुहं होइ पुणो विवागे ॥३३॥
व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे गतः प्रद्वेषं उपैति, तत इहैव च दुःखौघपरम्परातः प्रद्विष्टचित्तश्च सन् चिनोति बध्नाति तत्कर्म, यत्तस्य पुनर्भवति दुःखं दुःखहेतुः विपाकेऽनुभवकाले, इहामुत्र चेत्यर्थः, पुनर्ग्रहणमैहिकदु:खापेक्षम् ॥३३॥
अशुभकर्मोपचयश्च हिंसाद्याश्रवोत्थः, आश्रवो हेतुश्चैवमुक्तः, अथ रागद्वेषोद्धरणे गुणमाह
रूवे विरत्तो मणुओ विसोगे, एएण दुक्खोघपरंपरेण । ण लिप्पइं भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥३४॥
व्याख्या-रूपे विरक्तश्च अद्विष्टश्च मनुजो विशोकः शोकरहित एतया प्रागुक्तया दुःखौघपरम्परया न लिप्यते भवमध्येऽपि सन् संसारान्तर्वर्त्यपि । दृष्टान्तमाह-जलेनैव पुष्करिणीपलाशं पद्मिनी पत्रं जलमध्येऽपि सत् ॥३४॥
एवं श्रोत्रेन्द्रियादीनां मनसश्च त्रयोदश त्रयोदश सूत्राणि ज्ञेयानि । इत्थं चक्षुराश्रित्य त्रयोदश सूत्राण्युक्तानि, चक्षुषो बहुदोषज्ञप्त्यै श्रोत्रात् पूर्वं चक्षुरुक्तम्
सोयस्स सदं गहणं वयंति, तं रागहेउं समणुनमाहु । तं दोसहेउं अमणुन्नमाहु, समो उ जो तेसु स वीअराओ ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org