________________
४९०
रूवे अतित्ते य परिग्गहंमि, सत्तोवसत्तो ण उवेइ तुट्ठि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥
•
व्याख्या - रूपे अतृप्तश्च परिग्रहे च तद्विषयमूर्छायां च सक्तः सामान्येनासक्तिमान्, उपसक्तश्च गाढमासक्तः, सक्तश्च पूर्वं उपसक्तश्च पश्चात्, एवंविधो जनो नोपैति तुष्टिं तथा चाऽतुष्टिरेव दोष:, तेन च दुःखी, यदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान् परस्य सम्बन्धिरूपवद्वस्तुलोभाविलो लोभकलुषः, यद्वा परेषां स्वं परस्वं यद्यद्रूपवद्वस्तु, तस्मिन् यो लोभो गाद्ध, तेनाविलः परस्वलोभाविलः सन् आदत्ते गृह्णाति अदत्तं परकीयम् ॥२९॥
दोषान्तरमस्याह—
श्रीउत्तराध्ययनदीपिकाटीका - २
,
तहाभिभूयस्स अदत्तहारिणो, रूवे अतित्तस्स परिग् य ।
मायामुसं वड्ढइ लोभदोसा, तत्थावि दुक्खा ण विमुच्चई से ॥३०॥
व्याख्या - तृष्णाभिभूतस्य, अदत्तं हर्त्तुशीलस्याऽदत्तहारिणो रूपे रूपविषये परिग्रहेऽतृप्तस्य, च एवार्थे, मायया प्रधाना मृषाऽलीकभाषा मायामृषा वर्द्धते, कुत इत्याहलोभदोषात्, लुब्धो ह्यन्यस्वमादत्ते, लात्वा च तद्गोपनपरो मायामृषां वक्ति, तत्र मृषोक्तावपि स दुःखान्न विमुच्यते, यतस्तस्यैवं मृषा वदतोऽपि, कदाचिदपि मां कोऽपि वेत्स्यतीति तन्मनसि चिन्तादुःखमेव भवति । इह रागाधिकारे सर्वत्र लोभोक्तिः रागेऽपि लोभांशस्यैवातिदुष्टताज्ञप्त्यै ॥ ३०॥
दुःखाविमुक्तिं भावयति
मोसस्स पच्छा य पुरत्थओ य, पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥
Jain Education International 2010_02
व्याख्या - रूपाकृष्टो जनो रुचिरं वस्तु दृष्ट्वा, अदत्तं च तल्लात्वाऽपलपन् मृषायाः पश्चादिदं कूटं किं मया स्थापितमिति पश्चात्तापाद् दुःखी, पुरस्ताच्च कथमयं स्त्र्यादिस्वामी मया वञ्च्य इति चिन्तया दुःखी, प्रयोगकाले तद्भाषणप्रस्तावे च माऽसौ ममालीकभाषितं लक्षयत्विति क्षोभतो दुःखी, दुरन्तो दुष्टोऽन्तः इहाऽनेकविधविडम्बनातोऽमुत्र च नरकाप्त्या यस्यासौ दुरन्तो जन्तुः, तदेवं मृषाद्वारेणाऽदत्तादानस्य दुःखहेतुत्वमुक्तं । एवमदत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्यात्, अनिश्रो दोषवत्तया कस्यचिदप्यवष्टम्भेन हीनः, एवं च मैथुनाश्रवोऽपि ज्ञापितो यतो रागिण्येतस्यापि प्रसिद्धत्वात्, यद्वा रूपसम्भोगो देवानां मिथुनकर्मोत्थो मैथुनमेव । यतः -
For Private & Personal Use Only
www.jainelibrary.org