________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
४८९ व्याख्या-एकान्तरक्तो यो रुचिरे रूपे, 'अतालिसे'त्ति मागधदेश्युक्त्याऽतादृशेऽसुन्दरे स करोति प्रदोषं द्वेषं, सुन्दरीनन्दन इव सुरसुन्दरीं दृष्ट्वा सुन्दर्यां । यथा स सुन्दर्यां रक्तोऽपि भ्रातृसाधुना विद्यातो मेरुं नीयमानो वानरवानरीकिन्नरकिन्नरीदेवदेवीरूपाणि स्वप्रियाया अधिकानि दृष्ट्वा दुःखी सन् देवीकृते प्रियां त्यक्त्वाऽदीक्षि । दुःखस्य संपीडं सङ्घातं, समिति भृशं पीडां सम्पीडामुपैति बालोऽज्ञानी, परं न लिप्यते तेन द्वेषकृतदुःखेन मुनिर्विरागः ॥२६॥
रागस्यैवाश्रवनिमित्तस्य दुःखकृत्त्वं सूत्रषट्केनाहरूवाणुगासाणुगए य जीवे, चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्टगुरू किलिडे ॥२७॥
व्याख्या-रूपं मनोज्ञमनुगच्छतीति रूपानुगा, सा चासावाशा च रूपानुगाशा रूपविषयोऽभिलाषः, तदनुगतश्च जीवांश्चराऽचरान् त्रसस्थावरान् हिनस्त्यनेकरूपान् , जात्यादिभेदादनेकविधान् काञ्चित् , गमनागमनभूषणवस्त्रादिसौधादिपुष्पादिवल्गनादिसन्नानाद्यैः, तथा चित्रैरनेकप्रकारैः स्वपरकायशस्त्राद्युपायैः [तानिति चराचरजीवान्] परितापयति दुःखयति बालोऽज्ञोऽन्यांश्च पीडयति एकदेशे दुःखोत्पादनेन, आत्मार्थं गुरुः स्वप्रयोजननिष्ठः, क्लिष्टो रागबाधितः ॥२७॥
अन्यच्चरूवाणुराए ण परिग्गहेण, उप्पायणे रक्खणसंनियोगे । वए विओगे य कहं सुहं से, संभोयकाले य अतत्तिलाभे ॥२८॥
व्याख्या-रूपेऽनुरूपतोऽनुरागस्तस्मिन् सति, णः पूर्ती परिग्रहेण मूर्छात्मकेन हेतुना, उत्पादने उपार्जने, रक्षणं चाऽपायेभ्यः, सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं, समाहारे रक्षणसन्नियोगस्तस्मिन् , व्यये विनाशे, वियोगे विरहे, सर्वत्र रूपस्येति ज्ञेयं । क्व सुखं ? सर्वत्र दुःखमेवेत्यर्थः, 'से' तस्य जन्तोः, रूपवद् गजाश्वादिकलत्राद्युत्पादनादिदुःखमेव जन्तुराप्नोतीति भावः, सम्भोगकाले चोपभोगप्रस्तावे चाऽतृप्तिलाभे तृप्तिप्राप्त्यभावे सति क्व सुखं ? बहुधापि रूपदर्शने रागिणां न तृप्तिरस्ति उत्तरोत्तरेच्छया हि खिद्यते एव रागी। यतः
न ज्ञातकामः कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥१॥[ ] २८||
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org