________________
४८८
श्रीउत्तराध्ययनदीपिकाटीका-२ ननु यदि रूपमेव रागद्वेषकृत् , तदा रागद्वेषजयार्थिनो रूपाशा चाचिन्त्यैवास्तु, किं चक्षुर्निग्रहेण ? अत्रोत्तरम्
रूवस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति । रागस्स हेउं समणुनमाहु, दोसस्स हेडं अमणुन्नमाहु ॥२३॥
व्याख्या-रूपस्य चक्षुः, गृह्णातीति ग्रहणं, तथा चक्षुषो रूपं गृह्यत इति ग्रहणं ग्राह्यं वदन्ति, एवं रूपचक्षुषोाह्यग्राहकभावदर्शनतः परस्परमुपकार्योपकारभाव उक्तः, ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं स्यात् , अत एवाह-रागस्य हेतुं चक्षुः, सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञं आहुर्बुवते, अमनोज्ञरूपग्राहकं च द्वेषस्य हेतुं कथयन्ति ॥२३॥
रूवेसु जो गिद्धिमुवेइ तिव्वं, अकालियं पावइ सो विणासं । रोगाउरे से जह वा पयंगे, आलोगलोले समुवेइ मच्चुं ॥२४॥ व्याख्या-रूपेषु यो गृद्धि गायमुपैति तीव्रां, उक्तञ्च
इच्छा मूर्छा कामः, स्नेहो गाद्धर्यं ममत्वमभिनन्दः ।
अभिलाष इत्यनेकानि, रागपर्यायवचनानि ॥१॥ [प्र.र./श्लो.१८] अकाले भवमकालिकं, यथास्थित्यायुरुपक्रमादर्वागेव प्राप्नोति स विनाशं रोगातुरः सन् (पाठान्तरे-रागातुरः सन्) स इति लोकप्रतीतो, वा एवार्थे, यथैव पतङ्गः शलभः, आलोको दीपशिखादर्शनं, तत्र लोलो लम्पट: सन् समुपैति मृत्युम् ॥२४॥
जे यावि दोसं समुवेइ तिव्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, न किंचि रूवं अवरज्झइ से ॥२५॥
व्याख्या-यश्च यस्तु अपि, यस्मिन्नित्यत्र योज्यं, दोषं द्वेषं रूपेषु समुपैति तीव्र, तस्मिन्नेव क्षणे स दुःखमुपैति चित्तसन्तापादिकं प्राप्नोति । न तु रूपमेव दुःखहेतुरित्याह-दुष्टदमनं दुर्दान्तं चक्षुस्तदेव दोषस्तेन दुर्दान्तदोषेण स्वकेन जन्तुर्दुष्यति, न किञ्चित् स्वल्पमपि रूपममनोज्ञमपराध्यति दुष्यति 'से' तस्य जन्तोः ॥२५॥
रागद्वेषयोर्द्वयोरनर्थहेतुत्वमुक्त्वा द्वेषस्य रागहेतुकत्वान्महाऽनर्थमूलतेति तत्त्यागमाहएगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, ण लिप्पई तेण मुणी विरागे ॥२६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org