________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
४८७
चेष्ट वियोगादिजन्यं किञ्चिदल्पमपि तस्य द्विविधस्यापि दुःखस्यान्तमेवान्तकं पर्यन्तं गच्छति वीतरागो विगतकामेच्छः ॥ १९॥
ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यतेऽत आहजहा य किंपायफला मणोरमा, रसेण वन्नेण य भुज्जमाणा ।
खुद्द जीविअ पच्चमाणा, एयोवमा कामगुणा विवागे ॥२०॥ व्याख्या- यथा चेति यथैव किम्पाकफलानि, अपेर्गम्यत्वात्, मनोरमाण्यपि रसेन वर्णेन, चाद् गन्धादिना च, भुज्यमानानि, 'ते' इति तानि लोकप्रतीतानि क्षुद्रके सोपक्रमे जीविते पच्यमानानि विपाकावस्थाप्राप्तानि मरणान्तदुःखदायीनि यद्वाऽार्षत्वात् क्षोदयन्ति नाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमा विपाकदारुणतासाम्ये, तत्तुल्याः कामगुणा विपाके फलदानकाले ॥२०॥
अथ सद्वेषरागस्योद्धरणोपायमभिधित्सुर्दमितेन्द्रियत्वं सिंहावलोकितन्यायेनाहजे इंदियाणं विसया मणुन्ना, न तेसु भावं निसिरे कयाई । न यामणुस्से मणं पि कुज्जा, समाहिकामे समणे तवस्सी ॥२१॥
,
व्याख्या - ये इन्द्रियाणां विषया मनोज्ञाः, न तेषु, अपेर्गम्यत्वाद्भावमपि अभिप्रायमपि इन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनं ? निसृजेत् कुर्यात् नैवाऽमनोज्ञेषु मनोऽपि सद्वेषं चित्तमपि कुर्यात्, अत्रापीन्द्रियाणि प्रवर्त्तयितुं, अप्यर्थः प्राग्वत्, समाधिश्चित्तैकाग्र्यं स च रागद्वेषाऽभाव एवेति तत्कामो रागद्वेषोद्धरणाभिलाषी श्रमणस्तपस्वी ॥२१॥
अथेन्द्रियेषु तत्प्रवर्त्तने रागद्वेषाऽनुद्धरणे च यो दोषस्तं प्रत्येकमिन्द्रियाणि, तत्प्रसङ्गतो मनश्चाश्रित्याह—
चक्खुस्स रूवग्गहणं वयंति, तं रागहेउं तु मणुन्नमाहु । तं दोसउं अमणुन्नमाहु, समो उ जो तेसु स वीयराओ ॥२२॥
व्याख्या - चक्षुषो लक्षणं रूपग्रहणं तीर्थङ्करा वदन्ति, रूपं वर्ण: संस्थानं वा, तद् गृह्यतेऽनेनेति रूपग्रहणं चक्षुरिन्द्रियस्यैतल्लक्षणं, 'तं' इति तद्रूपं रागहेतुकं मनोज्ञमाहुः, यस्मिन् रूपे दृष्टे राग उत्पद्यते तद्रूपं मनोज्ञमाहुः, तदेव रूपं द्वेषहेतुकममनोज्ञमाहुः, यस्मिन् रूपे दृष्टे द्वेष उत्पद्यते तद्रूपममनोज्ञमित्यर्थः, यः साधुस्तेषु मनोज्ञाऽमनोज्ञेषु रूपेषु समः सदृशवृत्तिः स्यात् स साधुर्वीतराग उच्यते ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org