________________
४८६
श्रीउत्तराध्ययनदीपिकाटीका-२ ननु विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः, तत् किं विविक्तशयनाद्यैरित्याशङ्क्याह
कामं तु देवीहिं विभूसियाहिं, न चाईया खोभइउं तिगुत्ता । तहावि एगंतहियं ति णच्चा, विवित्तवासो मुणीणं पसत्थे ॥१६॥
व्याख्या-अनुमतमेवैतद्यदुत देवीभिरप्यास्तां मानुषीभिः, भूषिताभिर्न नैव 'चाइय'त्ति शकिताः क्षोभयितुं चालयितुं संयमात् , तिसृभिर्गुप्तिभिर्गुप्तास्त्रिगुप्ता मुनयः, तथापि एकान्तहितमिति ज्ञात्वा, कोऽर्थः ? किल योगिनोऽपि तत्सङ्गात् क्षुभ्यन्ति, येऽपि च न भुक्ष्यन्ति तेऽप्यवर्णादिभाजः स्युः, अतो विविक्तस्थानवासो मुनीनां प्रशस्तः, अन्तर्भावितण्यर्थतया प्रशंसितेऽर्हदाद्यैः ॥१६।।
यतःमुक्खाभिकंखिस्स वि माणवस्स, संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥१७॥
व्याख्या-मोक्षाधिकाङ्क्षिणोऽपि मानवस्य संसारभीरोः, धर्मे श्रुतधर्मादौ स्थितस्यापि नचैवैतादृशमीदृशं दुस्तरं दुरतिक्रममन्यदस्ति लोके, यथा स्त्रियो बालमनोहरा निर्विवेकिचित्ताक्षेपिण्यो दुस्तराः सन्ति ॥१७॥
स्त्रीसङ्गातिक्रमे गुणमाहएए य संगे समइक्कमित्ता, सुहत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता, णई भवे अवि गंगासमाणा ॥१८॥
व्याख्या-एतांश्च सङ्गान् सम्बन्धान् स्त्रीविषयान् समतिक्रम्य शेषा द्रव्यादिसङ्गाः सुखोत्तरा भवन्ति । सर्वसङ्गानां रागरूपत्वे समानेऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् , दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणसमुद्रमुत्तीर्य पश्चात् गङ्गासमानापि महानदी, आस्तां लघुनदी सुखोत्तारैव भवेत् ।।१८।।
रागस्य दुःखहेतुत्वं दर्शयतिकामाणुगिद्धिप्पभवं खु दुक्खं, सव्वस्स लोगस्स सदेवगस्स । जं काइयं माणसियं च किंचि, तस्संतगं गच्छइ वीयरागो ॥१९॥
व्याख्या-कामेष्वनुगृद्धिः सतताभिकाङ्क्षां, तत्प्रभवमेव 'खु' निश्चयेन दुःखं सर्वस्य लोकस्य प्राणिगणस्य देवैः सहितस्य, यत् कायिकं रोगादि, मानसिकं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org