________________
४८५
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
रागमुद्धर्तुकामस्य त्याज्यमुक्त्वा कर्त्तव्यमाहविवित्तसेज्जासणजंतियाणं, ओमासणाणं दमिइंदियाणं । न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥१२॥
व्याख्या-विविक्ता स्त्र्यादिविकला शय्या वसतिस्तस्यामासनमवस्थानं, तेन यन्त्रिताः, तेषां विविक्तशय्यासनयन्त्रितानां अवमाशनानां ऊनोदरिकाभाजां दमितेन्द्रियाणां, एवंविधानां साधूनां चित्तं मनो रागशत्रुर्न धर्षयति, न पराभवति । क इव? औषधैर्गडूच्यादिभिः पराजितः पराभूतो व्याधिः कुष्ठादिदेहमिव ॥१२॥
विविक्तविपर्ययदोषमाहजहा बिरालावसहस्स मूले, ण मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥१३॥
व्याख्या-यथा बिडालावसथस्य मार्जाराश्रयस्य मूले समीपे न मूषकाणां वसतिः स्थितिः प्रशस्ताऽवश्यं तत्र तेषामपायः, एवमेव स्त्रीणां पण्डकादीनां निलयो निवासः स्त्रीनिलयः, तस्य मध्ये ब्रह्मचारिणो निवासो न क्षमो न युक्तो ब्रह्मचर्यबाधनात् ॥१३।।
विविक्तेऽपि कदाचित् स्त्रीसम्पाते यत् कर्त्तव्यं तदाहन रूवलावण्णविलासहासं, ण जंपियं इंगिय पेहियं वा । इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥१४॥
व्याख्या-न नैव रूपं, लावण्यं, विलासान् विशिष्टनेपथ्यरचनाद्यान् , हासं च, एषां समाहारे रूपलावण्यविलासहासं न जल्पितं मन्मनोल्लापादि, इङ्गितमङ्गभङ्गादि, वीक्षितं कटाक्षवीक्षितादि, वा समुच्चये, स्त्रीणां सम्बन्धि चित्ते निवेश्याऽहो सुन्दरमिदमिति विकल्पतः स्थापयित्वा दृष्टुं इन्द्रियविषयतां नेतुं व्यवस्येध्यवस्येत् । अत्र निवेश्येत्युक्त्वा रागाद्याशयं विनैव तदर्शनमपि न दोषाय ॥१४॥
किमेवमुपदिश्यते इत्याहअदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियज्झाणजुग्गं, हियं सया बंभवए रयाणं ॥१५॥
व्याख्या-अदर्शनं, चः समुच्चये, एव निश्चये, तथाऽप्रार्थनमनभिलषणं, अचिन्तनं रूपाद्यपरिभावनं, अकीर्तनं नाम्ना गुणैश्च स्त्रीजनस्य, एवंविधमार्यं यद्ध्यानं धादि, तस्य योग्यं तद्धेतुत्वेनोचितं आर्यध्यानयोग्यं हितं पथ्यमस्ति [सदा सर्वकालं] ब्रह्मव्रते ब्रह्मचर्ये रतानां मुनीनामिति ॥१५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org