________________
४८४
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-दुःखं हतमिव हतं यस्य तस्य न भवति मोहः, यस्य च मोहो हतस्तस्य न स्यात्तृष्णा, यस्य च तृष्णा हता तस्य लोभो न भवति, यस्य च लोभो हतस्तस्य न किञ्चनानि द्रव्याणि सन्ति । सत्सु हि तेषु स्यादभिकाङ्क्षा, तद्रूप एव च लोभो, यत्तु तत्सद्भावेऽपि लोभहननं भरतादीनां तत्कादाचित्कम् ॥८॥
दुःखहेतुमोहादीनां सविस्तरमुन्मूलनोपायं विवक्षुराहरागं च दोसं च तहेव मोहं, उद्धत्तुकामेण समूलजालं । जे जे उवाया पडिवज्जियव्वा, ते कित्तइस्सामि अहाणुपुव्वि ॥९॥
व्याख्या-राग द्वेषं तथैव मोहं चोद्धर्तृकामेनोन्मूलयितुमिच्छता, सह मूलानां तीव्रकषायादीनां जालेन समूहेन वर्त्तते इति समूलजालं यथास्यात्तथा, ये ये उपायास्तदुद्धरणहेतवः प्रतिपत्तव्यास्तान् कीर्तयिष्याम्यथानुपूर्व्या । (पाठान्तरे–'अपाया परिवज्जियव्वा' अपायास्तदुद्धरणप्रवृत्तानां विघ्नकारिणोऽनर्थाः परिवर्जयितव्याः ) ॥९॥
यथा
रसा पकामं ण वि सेवियव्वा, पायं रसा दित्तिकरा णराणं । दित्तं च कामा समभिद्दवंति, दुमं जहा साउफलं व पक्खी ॥१०॥
व्याख्या-रसाः क्षीरादिविकृतयः प्रकाममत्यर्थं न निषेवितव्या नासेव्याः, प्रकामग्रहणेन वातादिक्षोभे रसा अपि सेव्या एव, निःकारणं नैव सेव्याः, किमेवमुच्यते ? इत्याह-प्रायो रसा निषेव्यमाणा दृप्तिकरा धातूद्रेककरणशीलाः (पाठान्तरे-'दित्तकरा' वा-दीप्तं दीपनं मोहानलज्वलनं तत्करणशीलाः, दीप्तकरा वा) नराणां नृस्त्रीक्लीवानां मनुजानां, दृप्तं नरं च पुनः, जातित्वाद्बहुवचनप्रक्रमेऽप्येकवचनं, कामाः समभिद्रवन्ति समीपमयान्ति, द्रुमं यथा स्वादुफलं पक्षिण इव, इह द्रुमोपमो नरः स्वादुफलतुल्यं दृप्तत्वं दीप्त्वं वा, पक्षितुल्याः कामाः ॥१०॥
रसप्रकामे दोष उक्तः, अथ सामान्येन भोजनप्रकामे दोषमाहजहा दवग्गी पउरिंधणे वणे, समारुओ णोवसमं उवेइ । एविंदियग्गी वि पगामभोइणो, ण बंभयारिस्स हियाय कस्सइ ॥११॥
व्याख्या-यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशममुपैति, एवं दवाग्निवत् इन्द्रियं इन्द्रियजनितो राग एवाग्निर्धर्मतरुदाहकत्वात् इन्द्रियाग्निः, सोऽपि प्रकामभोगिनोऽत्याहारस्य, वायुप्रायेन तदुदरिकत्वात् , ब्रह्मचारिणः कस्याप्यतिसुस्थितस्यापि न हिताय स्यात् ॥११॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org