________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम्
४८३ ईदृक्सहायाऽप्राप्तौ तुण वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥५॥
व्याख्या-न, वा चेदर्थे, ततश्च न चेल्लभेत निपुणं बुद्धिमन्तं गुणाधिकं ज्ञानादिगुणैरधिकं, वा गुणतो विनयादिगुणानाश्रित्यात्मनः समं तुल्यं सहायं, वा विकल्पे, तदा एकोऽप्यसहायोऽपि पापानि पापहेत्वनुष्ठानानि विवर्जयन् विहरेत् , कामेषु असजन् प्रतिबन्धमकुर्वन् , तथाविधगीतार्थविषयं चेदं अन्यथैकाकिविहारस्यागमे निषेधात् , एतदुक्तौ च 'मध्याादाने आद्यन्ताजदानं' इति न्यायेनाहारवसत्योरप्यपवादो ज्ञेयः ॥५॥
दुःखप्रमोक्षहेतुज्ञप्त्यै मोहोत्पत्तिमाहजहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य । एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥
व्याख्या-यथा च अण्डप्रभवा बलाका पक्षिविशेषा, अण्डं बलाकाप्रभवं यथा च, यथा अनयोमिथ उत्पत्तिस्थानता, एवमेव मोहोऽज्ञानमायतनमुत्पत्तिस्थानं यस्याः सा मोहायतनरूपा तृष्णा, खुः एवार्थे, मोहं च तृष्णायतनं वदन्ति जिनाः तृष्णा हि सति वस्तुनि मूर्छा, सा च रागप्रधाना, अतस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि स्यात् , इति तृष्णाग्रहणेन रागद्वेषवुक्तावेव, तदुत्कटतायां च सिद्ध एव मोहः ॥६॥
अथैषां दुःखहेतुमाहरागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥
व्याख्या-रागश्च मायालोभात्मको, द्वेषोऽपि च क्रोधमानात्मकः कर्मणो बीजं कारणं कर्मबीजं कर्म मोहप्रभवं च मोहकारणं वदन्ति, कर्म च जातिमरणस्य जन्मजरामरणानां मूलं, जातिं मरणं च, तुरेवार्थे दुःखं वदन्ति विज्ञाः यतः
जायमाणस्स जं दुक्खं, मरणस्स य जं पुणो ।
तेण दुक्खेण संततो, न सरइ जाइमप्पणो ॥१॥ [ दे.कु./गा.१७] ।।७।। ततःदुक्खं हयं जस्स ण होइ मोहो, मोहो हओ जस्स ण होइ तण्हा । तण्हा हया जस्स ण होइ लोभो, लोभो हओ जस्स ण किंचणाइं ॥८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org