________________
४८२
श्रीउत्तराध्ययनदीपिकाटीका-२ नाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवज्जणाए । रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥
व्याख्या-ज्ञानस्य मत्यादेः सर्वस्य प्रकाशकतया निर्मलीकरणेन, अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जनया, मिथ्या श्रुतश्रवणकुदृष्टिसङ्गत्यागादिना, रागद्वेषयोः कषायरूपत्वेन चारित्राघातकयोः सङ्क्षयेण, सम्यग्ज्ञानदर्शनचारित्रैरेकान्तसौख्यं मोक्षं समुपैति जीव इति शेषः, मोक्षो दुःखक्षयात् स्यात् , दुःखक्षयो रागद्वेषहान्या चेत्यर्थः ॥२॥
नन्वस्तु ज्ञानाद्यैर्दुःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ? इत्याहतस्सेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा । सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥३॥
व्याख्या-योऽयं प्राग् मोक्षोपाय उक्तस्तस्यैष वक्ष्यमाणो मार्गः प्राप्तिहेतुः, क इत्याह-गुरवो यथावच्छास्त्रार्थदेशकाः, वृद्धाः श्रुतपर्यायादिवृद्धास्तेषां सेवा, गुरुकुलवास इत्यर्थः, यतस्तत्रैव सुप्राप्याणि ज्ञानादीनि । उक्तञ्च
नाणस्स होई भागी, थिरयरओ दंसणे चरित्ते य ।
धन्ना एव कहिं वि, गुरुकुलवासं न मुंचति ॥१॥ [पञ्चा.११/गा.१६] सत्यपि गुरुकुलवासे कुसङ्गाद्विनाश एवेत्याह-विवर्जना बालजनस्य पार्श्वस्थादेर्दूराहुरेण, पुनः स्वाध्यायस्यैकान्तेनैकाग्रचित्तेन निषेवणाऽभ्यसनं, तत्राप्यनुप्रेक्षैव प्रधानेत्याहसूत्रार्थसञ्चिन्तनां, तस्यामपि धृति विना न ज्ञानादिलाभ इत्याह-धृतिश्चाऽनुद्विग्नत्वं धार्य । एतानि पूर्वोक्तानि सर्वाण्यपि ज्ञानाप्तिकारणानि ॥३॥
एतानीच्छता पुनरियं क्रिया कार्याआहारमिच्छे मियमेसणिज्जं, सहायमिच्छे निउणत्थबुद्धि । निकेयमिच्छेज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥
व्याख्या-आहारमिच्छन्मितमेषणीयं, अपेर्गम्यत्वादिच्छेदपीदृगेव, आदानभुक्ती तु दूरे एव, सहायमिच्छेद् गच्छान्तर्वर्ती सन् , निपुणार्थेषु जीवादिषु बुद्धिरस्येति निपुणार्थबुद्धिस्तं, जीवाऽजीवादितत्त्वज्ञं शिष्यादिकं सहायकारकमिच्छेत् । निकेतनमाश्रयमिच्छेद्विवेकयोग्यं स्त्र्याद्यसंसर्गोचितं, समाधिकामो ज्ञानादीच्छु: श्रमणस्तपस्वी ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org