________________
द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ॥
चरणं चाऽप्रमादिनः साधोः स्यात् , इति द्वात्रिंशं प्रमादस्थानाख्यमध्ययनमाहअत्र नियुक्ति:
जाणगसरीरभविए, तव्वइरित्ते य मज्जमाईसु । निद्दाविगहकसाया विसएसु भावओ पमाओ ॥१॥ [उत्त. नि./गा.५२०] वाससहस्सं उग्गं, तवं चरंतस्स उसभसामिस्स । जो सो पमायकालो, अहोरत्तं तु संकलिअं ॥२॥ [ उत्त. नि./गा.५२३] बारसवासे अहिए, तवं चरंतस्स वद्धमाणस्स । जो सो पमायकालो, अंतमुहुत्तं तु संकलिअं ॥३॥ [ उत्त. नि./गा.५२४] जेसिं तु पमाएणं, गच्छइ कालो निरत्थओ धम्मे ।
ते संसारमणंतं, हिंडंति पमायदोसेणं ॥४॥ [उत्त. नि./गा.५२५] धर्मविषये प्रमादात्
तम्हा खलु प्पमायं, चइऊणं पंडिएण पुरिसेण ।
दंसणनाणचरित्ते, कायव्वो अप्पमाओ य ॥५॥ [ उत्त. नि./गा.५२६] अत्र सूत्रम्अच्चंतकालस्स समूलगस्स, सव्वस्स दुक्खस्स उ जो पमोक्खो। तं भासओ मे पडिपुन्नचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥
व्याख्या-वस्तुनो हि द्वावन्तौ, आरंभक्षणो निष्ठा च, इहारम्भक्षणोऽन्तः, तमतिक्रान्तोऽत्यन्तोऽनादिकालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाऽविरतिरूपेण वर्त्तते इति समूलः, स एव समूलकस्तस्य, सर्वस्य, दुःखयतीति दुःखं संसारस्तस्य यः प्रमोक्षोऽपगमस्तं भाषमाणस्य 'मे' मम, प्रतिपूर्ण विषयान्तराऽगमनेनाऽखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः, एवंविधा हे भव्या ! इति शेषः, यूयं शृणुत ! एकाग्र्यं धर्मध्यानं, तस्मै हितमेकाग्र्यहितं, एकान्तहितं वा, हितस्तत्त्वतो मोक्षस्तदर्थम् ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org