________________
५१८
त्रयस्त्रिंशं कर्मप्रकृतिनामाध्ययनम्
चरित्तमोहणं कम्मं, दुविहं तु वियाहियं ।
कसायवेयणिज्जं च, नोकसायं तहेव य ॥१०॥ व्याख्या-चरित्रे मुह्यतेऽनेनेति चरित्रमोहनं कर्म, येन जानन्नपि च तत्फलादि न तत्प्रतिपद्यते तत् तु द्विविधं व्याख्यातं जिनैः (पाठान्तरे-चरित्तमोहणिज्जं दुविहं । वोच्छामि अणुपुव्वसो) कषायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते तत् कषायवेदनीयं, चः समुच्चये, नोकषायवेदनीयं नोकषायाः कषायैः सहवर्त्तिनो हास्यादयस्तैर्वेद्यते । तथेति समुच्चये, एवेति पूर्ती ॥१०||
अनयोर्भेदानाह___ सोलसविहभेएणं, कम्मं तु कसायजं ।
सत्तविह नवविहं वा, कम्मं च नोकसायजं ॥११॥ व्याख्या-षोडशविधभेदेन, [षोडशप्रकारो यो भेदो-नानात्वं तेन, लक्षणे तृतीया यद्वा षोडशविधं भेदेन भिद्यमानतया चिन्त्यमाने प्राकृतत्वाद्] अनुस्वारलोपः कर्म तु पुनः, कषायेभ्यो जायते इति कषायजं, "जं वेयइ तं बन्धइ" [ ] इत्युक्तेः कषायवेदनीयं । षोडशभेदास्तु-क्रोधमानमायालोभानां चतुर्णां प्रत्येमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसञ्चलनभेदैश्चतुविधचतुविधत्वात् । 'सत्तविह'त्ति प्राग्वद्विन्दुलोपात् सप्तविधं नवविधं वा कर्म नोकषायजं नोकषायवेदनीयं । तत्र सप्तविधं हास्यरत्यरतिभयशोकजुगुप्साः षट् , वेदश्च सामान्यविवक्षयैक एवेति । यदा तु वेदः स्त्रीपुरुषनपुंसकभेदेन त्रिधा गण्यते तदा नवविधम् ॥११॥
नेरइयतिरिक्खाउं, मणुस्साउं तहेव य ।
देवाउयं चउत्थं तु, आउकम्मं चउव्विहं ॥१२॥ व्याख्या-आयु:शब्दः प्रत्येकं योज्यते । निःक्रान्तं आयादिष्टफलात् , तत्रोत्पन्नानां सुखाऽभावेन निरया नरकावासास्तेषु भवा नैरयिकास्तेषामायु रयिकायुः, येन जीवास्तत्र ध्रियन्ते । एहन्ति रोचन्ति गच्छन्तीति तिर्यञ्चः, व्युत्पत्तिनिमित्तं चैतत् , प्रवृत्तिनिमित्तं तु तिर्यग्गतिनामैकेन्द्रियाद्यास्तेषामायुस्तिर्यगायुः, तथा मनोः श्रीऋषभस्याऽपत्यानि मनुष्याः, 'मनोर्जातावण्यतौ सुकचा' इति यत्प्रत्ययः सुगागमनश्च तेषामायुर्मनुष्यायुः, देवानामायुवायुः, येन तेषु स्थीयते, चतुर्थं, तुः पूर्ती, एवमायुःकर्म चतुर्विधम् ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org