________________
४७८
श्रीउत्तराध्ययनदीपिकाटीका-२ जाणंति न वि य एवं, निद्धम्मा मोक्खकारणं नाणं ।
निच्चं पगासयंता, वेयावच्चाई कुव्वंति ॥१॥[ ] (ज्ञानं प्रकाशयन्तः परैर्वैयावृत्त्यादि कारयन्तो नृपवत् स्वयमेव कुर्वन्तः सन्ति ।) तथा–छट्ठमदसमदुवालसेहिं, अबहुस्सुयस्स जा सोही ।
तत्तो बहुतरियगुणा, हवइ जिमियस्स नाणस्स ॥३॥[ ] एवं उपाध्यायानामपि ।४। साधूनां तु अन्यप्रेरणया कर्मबन्धः, तथा मिथो न सहन्ते, तत एव विहारं कुर्युः, अन्यथैकत्र तिष्ठेयुः, अत्वरितगतयः, श्वान इव पृथग् भुञ्जन्ते, विरूपवेषाः, अत्रोत्तरं-साधवोऽकषायत्वादप्रमत्तत्वात् सर्वत्र दोषहीनाः ॥५॥ एवं साध्वीनामपि-साध्वीनां कलहो, बहूपकरणता, यद्वा साधूनां साध्व्य उपद्रवः, अत्रोत्तरंविधिना साधूनां निर्वाहयतां साध्व्यो नोपद्रवः ।६। तथा श्राद्धानां श्राद्धीनां सारम्भाणां कुतः सुगतिः ? अत्रोत्तरं-तेऽप्याराधका देशविरत्यादिनाऽर्हद्भिर्मार्गद्वयस्योक्तेः ।७।८। देवानां तु अविकुळ किञ्चित् कर्तुमशक्ताः, कामगर्दभा वाऽनिमेषा वा, अनुत्तरसुरा वा निश्चेष्टाः, सामर्थ्य वा सति कथं तीर्थोन्नतिं न कुर्युः ? अत्रोत्तरं-देवगतिस्वाभाव्यात् , तथा यद्यपि कालस्वाभाव्यादत्रोन्नतिं न कुर्युः, तथाऽन्यत्राऽधुनापि न कुर्युः ।९।१०। इहपरलोकासातना लोकद्वयविरुद्धाचरणेन ।११।१२। धर्मस्य-यथा प्राकृतबद्धशास्त्रोक्तो धर्मः, को वेद केनोक्तः ? किं क्रियया दानहीनया ? अत्रोत्तरम्
बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाङ्क्षिणां ।
अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः ॥१॥[ ] संस्कृतज्ञमिथ्यादृग्बोधनार्थं च केवलोक्तश्च, अविसंवादवचनान्यथाऽनुपपत्तेः, तथा दानेष्वभयदानान्नान्यदधिकं, तस्य चाहद्धर्मत्वात् , यतः
दानमौरभ्रिकेणापि, चाण्डालेनापि दीयते । येन वा तेन वा शीलं, न शक्यमभिरक्षितुं ॥१॥[ ] दानेन भोगानाप्नोति, यत्र तत्रोपपद्यते ।
शीलेन भोगान् स्वयं च, निर्वाणं चाधिगच्छति ॥२॥ [ सु.अ.१०।१०] ततोऽर्हद्धर्मः शीलादिमयः ।१३। लोकस्य सप्तद्वीपमयस्य सकर्तृत्वं ब्रह्मेश्वरादिकर्तृत्वमिति जीवत्वादि भाषायां आसातना ।१४। प्राणास्त्रसा व्यक्तश्वासत्वात् , भूताः स्थावरा भवन्ति भूता भविष्यन्ति इति च व्युत्पत्तेः, जीवाः सायु:कर्माणः सर्वे भवस्थाः सत्वा सिद्धा भवस्थाश्च, तत्रासातना विपरीतप्ररूपणादिना, तथा ह्यङ्गष्ठपर्वमात्रो द्वीन्द्रियाद्यात्मा,
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org