________________
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
तथा 'जोग'त्ति पदैकदेशे पदप्रयोगदर्शनात् योगसङ्ग्रहाः, यैर्योगाः शुभमनोवाक्कायव्यापाराः सम्यग् गृह्यन्ते स्वीक्रियन्ते ते द्वात्रिंशत्, यतः -
आलोयणा निरखलावे, आवईसु दढधम्मया ।
अणिस्सिओवहाणे य, सिक्खा निप्पडिकम्मया ॥ [ आ. नि./गा. १२७४]
अण्णायया अलोभे य, तितिक्खा अज्जवे सुती ।
सम्मट्टी माहीय, औयारे विणओवए ॥ [ आ. नि./गा. १२७५ ]
१६
२१
धित मँतीय संवेगे, पणिही सुविहि संवरे ।
अत्तदोसोवसंहारे, सव्वकामविरत्तया ॥ [ आ. नि./गा. १२७६ ] Verखाणे विसग्गे, अप्पमाए लवालवे ।
२४
झाणसंवरजोगे य, उदए मरणंतिए ॥ [आ. नि./गा. १२७७ ]
संगाणं च परिण्णा पैं, पायच्छित्तकरणे हैं ।
आराहणया मैरेणते, बत्तीसं जोगसंगहा ॥ [ आ. नि./गा. १२७८ ] ततो द्वन्द्वे सिद्धादिगुणयोगास्तेषु, 'तेत्तीसासायणासु'त्ति—
त्रयस्त्रिंशत्सङ्ख्यास्वासातनास्वर्हदादिविषयासु तत्रार्हतामासातना यथा—नासन् जिनाः, ज्ञानिनोऽथ कथमूढाः ? केवले सति किं धूपपुष्पच्छत्रादिभोग आहारश्च ? निर्दया वा उग्रव्रतोक्तेः, अत्रोत्तरं- अभूवन् जिनाः, अनन्यवाच्याऽविसंवादिमार्गदेशनाया अन्यथाऽनुपपत्तेः, भोग्यफलकर्मण एवार्हन् भुङ्क्ते, तीर्थकृन्नामकर्मोदयादेव ऋद्धिः, वेद्यकर्ममात्रभावादाहारं च भुङ्क्ते, कर्मरोगनाशाय क्रियौषधं च कृपयोचे इत्यादि ज्ञैर्ज्ञेयं । १ । सिद्धानां तु आसातना-न सन्ति सिद्धाः, निश्चेष्टानां कथं सुखं ? शुभाशुभज्ञाने रागद्वेषौ स्तः, एकसमये ज्ञानदर्शने किं न ? इत्यादि । अत्रोत्तरं - सन्ति सिद्धाः, आबालगोपालसिद्धकर्मक्षयाऽन्यथानुपपत्तेः, शेषे उत्तरे अकर्मत्वाज्जीवस्वाभाव्याच्च |२| आचार्याणामासातना त्वित्थं—परेभ्यो वैयावृत्त्यमुपदिशन्ति, स्वयं तु सुखशीलाः, यद्वा
डहरो अकुलीणो ति य, दुम्मेहो दमगमंदबुद्धि त्ति । अविप्पलाभलद्धी, सीसो परिभवइ आयरियं ॥१॥ [ ]
अत्रोत्तरं - डेहरो वि नाणवुद्धो, अकुलीणो त्ति य गुणालओ कि णु ॥ दुम्मेहाईण वित्ते, भणतसंताइं दुम्मेहा ॥१॥ []
१. डहरो लघुरपि ज्ञानवृद्धः, यद्यकुलीनस्तदा कथं गुणालयः ? | दुर्मेधा दुर्मेधत्वादीन्यसंति दूषणानि भणन्ति ॥
Jain Education International 2010_02
४७७
For Private & Personal Use Only
www.jainelibrary.org