________________
४७०
श्रीउत्तराध्ययनदीपिकाटीका-२ स्पष्टत्वाच्चेहान्यत्र च सूत्रे सङ्ख्याऽनुक्तिः, यो भिक्षुर्नित्यं यतते सम्यक् त्यागसेवनपालनैः, स संसारे न भ्राम्यति ॥१०॥
उवासगाणं पडिमासु, भिक्खूणं पडिमासु य ।
जे भिक्खू जयई निच्चं, से ण अच्छड़ मंडले ॥११॥ व्याख्या-उपासते सेवन्ते यतीनित्युपासका: श्रावकास्तेषां प्रतिमास्वभिग्रहविशेषेष्वेकादशसु । यथा
देसणवेयसामाईय, पोसहपैडिमाअंबंभसच्चित्ते ।
आरंभपैसे उद्दिट्ठवज्जए सेमणभूए अ ॥१॥ [ आ. नि. सं. गा.] आसु, भिक्षूणां द्वादशसु प्रतिमासु । यत:
मासाई सत्तंता, पंढमा बिइ तइय सत्तराइदिणा ।
अहराइ ऐगराई य, भिक्खूपडिमाण बारसगं ॥२॥ [आ. नि. सं. गा.] आसु सम्यग् ज्ञानोपदेशपालनाद्यैर्यो भिक्षुर्नित्यं यतते स संसारे न भ्राम्यति ॥११॥
किरियासु भूयगामेसु, परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं, से ण अच्छइ मंडले ॥१२॥ व्याख्या-क्रियाष्वर्थाऽनर्थादिषु त्रयोदशसु , भूतग्रामेषु परमाधार्मिकेषु च यथाक्रमं त्यागरक्षापरिज्ञानाद्यैर्यो भिक्षुर्नित्यं यतते स संसारे न भ्राम्यति । क्रियाश्चैता:
अट्ठाणाहिँसाउँकम्हा, दिट्टी य मोसऽदिण्णे य । अज्झत्थमाणमेत्ते, मायालोभेरियावहिया ॥१॥ [आ. नि. सं. गा.] भूतग्रामाश्चेमे चतुर्दशएगिदिय सुहुमियरी, सैण्णियरा पणिदिया सबितिचऊँ ।
पज्जत्तापज्जत्तग-भेएणं चउद्दसग्गामा ॥१॥ [आ. नि. सं. गा.] परमाधार्मिकाः पञ्चदश, धर्मेण चरन्तीति धार्मिकाः, न तथा तेऽधार्मिकाः, परमाश्च ते सकलाऽधार्मिकप्रधानतया परमाधार्मिकाः, अत्यन्तसङ्क्लिष्टचेतः, यथा
अंबे अंबरिसी चेव, सामे य सबलि त्ति य । दोर्वरुद्दकाले य, महाकाले त्ति आवरे ॥१॥ [आ. नि. सं. गा.]
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org