________________
४६९
एकत्रिंशत्तमं चरणविधिनामकमध्ययनम्
वएसु इंदियत्थेसु, समिईसु किरियासु य ।
जे भिक्खू जयई निच्चं, से ण अच्छइ मंडले ॥७॥ व्याख्या-व्रतेषु हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहविरतिषु इन्द्रियार्थेषु शब्दरूपसगन्धस्पर्शेषु, समितिषु समित्यध्ययनोक्तासु, क्रियासु च कायिक्याधिकरणिकी प्राद्वेषिकीपरितापनिकीप्राणातिपातिकीषु यो भिक्षुर्यतते यत्नं कुरुते, सम्यक् पालनातो व्रतसमितिषु, माध्यस्थ्यविधानतश्चेन्द्रियार्थेषु, परिहारतश्च क्रियासु, स संसारे न भ्राम्यति ॥७॥
लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥८॥ व्याख्या-लेश्यासु वक्ष्यमाणासु, षट्सु कायेषु पृथिव्यादिषु वक्ष्यमाणेष्वेव, षट्के षट्परिमाणे आहारकारणे वेदनादावुक्ते, यो भिक्षुर्यतते नित्यं, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यत्नं कुरुते स संसारे न भ्राम्यति ॥८॥
पिंडुग्गहपडिमासु, भयट्ठाणेसु सत्तसु ।
जे भिक्खू जयई निच्चं, से ण अच्छड़ मंडले ॥९॥ व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणाभिग्रहेषु संसृष्टादिषु प्रागुक्तासु, सप्तसु भयस्थानेषु, भयस्य मोहनीयोच्छात्मपरिणामस्योत्पत्तिनिमित्ताश्रयेषु, इहलोकभय १ परलोकभय २ आदानभय ३ अकस्माद्भय ४ आजीवनभय ५ मरण ६ अश्लोकभयेषु ७ सप्तसु यो भिक्षुर्यतते, एकत्र पालने, अन्यत्र त्वकरणे स संसारे न भ्राम्यति ॥९॥
मयेसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे ।
जे भिक्खू जयई निच्चं, से ण अच्छइ मंडले ॥१०॥ व्याख्या-मदेषु जात्याद्यष्टसु, ब्रह्मगुप्तिषु नवसुवसहिकहनिसिज्जिंदिय, कुटुिंतरऍव्वकीलियपणीए । अइमायाहारविभूसणा य, नव बंभगुत्तीओ ॥१॥ [आ. नि. सं. गा.] भिक्षुधर्मे क्षान्त्यादौ दशविधेखंती य मेद्दवज्जव, मुत्ती तव संजमे य बोधव्वे । सच्चं सोयं आकिंचणं च बैंभं जइधम्मो ॥१॥ [आ. नि. सं. गा.]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org