________________
४६८
श्रीउत्तराध्ययनदीपिकाटीका-२ इति पापकर्मप्रवर्तकौ, (पाठान्तरे-सर्वसङ्गावबन्धने ) यो भिक्षुस्तपस्वी रुणद्धि तिरस्कुरुते नित्यं, स नास्ते न तिष्ठति मण्डले संसारे (पाठान्तरे-न गच्छति न भ्राम्यति) ॥३॥
दंडाणं गारवाणं च, सल्लाणं च तियं तियं ।
जे भिक्खू चयई निच्चं, से ण अच्छइ मंडले ॥४॥ व्याख्या-दण्ड्यते चारित्रैश्वर्याद्यपहारतोऽसारीक्रियते एभिरात्मेति दण्डाः, दुःप्रणिहितमानसादिरूपा मनोदण्डाद्याः, उक्तं हि
जह लोए दंडिज्जइ, दव्वं हीड य वज्झए यावि ।
इय दंडंतऽप्पाणं, मणमाई दुप्पणिहिएहिं ॥१॥[ ] तेषां त्रिकं मनोदण्डवाग्दण्डकायदण्डरूपं, तथा गुरुर्लोभाभिमानात्तच्चित्त आत्मा, तस्यैतान्यध्यवसायानि गौरवाणि, तेषां त्रिकं, ऋद्धिगौरवरसगौरवसातगौरवाः, तथा शल्यतेऽनेकार्थत्वाद्वायते जन्तुरेभिरिति शल्यानि, तेषां त्रिकं, मायाशल्यनिदानशल्यमिथ्यात्वशल्यानि, चौ समुच्चये, एवं त्रिकं त्रिकं त्रिकं यो भिक्षुस्त्यजति नित्यं, स संसारे न तिष्ठति ॥४॥
दिव्वे य जे उवस्सग्गे, तहा तेरिच्छमाणुसे ।
जे भिक्खू सहई निच्चं, से ण अच्छड़ मंडले ॥५॥ व्याख्या-दिव्यांश्च, हास्यप्रद्वेषविमर्शपृथग्विमात्राभिरुप सामीप्येन सृज्यन्ते देवाद्यैरुत्पाद्यन्त इत्युपसर्गाः, तांस्तथा तिरश्चामेते, भयप्रद्वेषाहारहेत्वपत्यलयनसंरक्षणहेतोस्तैः क्रियमाणास्तैरश्चाः, तथा मनुष्याणामेते हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनानिमित्तास्तैः क्रियमाणत्वान्मानुष्यकाः, तान् , चशब्दादात्मसंवेद्यांश्च घट्टनप्रपतनस्तम्भनश्लेषणोद्भवानुपसर्गान् यो भिक्षुः सहते सम्यगध्यास्ते स संसारे न भ्राम्यति ॥५॥
विगहाकसायसन्नाणं, झाणाणं च दुयं तहा ।
जे भिक्खू वज्जइ निच्चं, से ण अच्छइ मंडले ॥६॥ व्याख्या विरुद्धा विरूपा वा कथा विकथा, स्त्रीभक्तदेशराजभेदाच्चतुर्धा, कषायाः क्रोधमानमायालोभः, सज्ञा आहारभयमैथुनपरिग्रहाख्याः, एषां प्रत्येकं चतुष्कं, ध्यानयोश्च द्विकमातरौद्रे तथा यो भिक्षुर्वर्जयति त्यजति स संसारे न भ्राम्यति ॥६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org