________________
४६५
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् तदेव विस्तरत आह
आलोयणारिहादीयं, पायच्छित्तं तु दसविहं ।
जे भिक्खू वहइ सम्म, पायच्छित्तं तमाहियं ॥३२॥ व्याख्या-आलोचनाह, यत्पापमालोचनया शुद्धयति, आदिशब्दात् प्रतिक्रमणार्हादिग्रहः, तत्पापमाश्रित्य यदालोचनादि दशविधं प्रायश्चित्तं तु , दशविधत्वं चेत्थम्आलोयण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउस्सग्गे ५।। तव ६ छेय ७ मूल ८ अणव-ट्ठया य ९ पारंचिए १० चेव ॥१॥ [सं.प्र./गा.१५२५] अस्य व्याख्यावश्यकदीपिकानवतत्वविवरणादर्जेया । एवं यद्दशविधं प्रायश्चित्तं भिक्षुः सम्यक् कायया वहति, तत्प्रायश्चित्तमाख्यातं जिनैरिति शेषः ॥३२॥ विनयमाह
अब्भुट्ठाणं अंजलिकरणं, तहेव आसणदायणं ।
गुरुभत्ति भावसुस्सूसा, विणओ एस वियाहिओ ॥३३॥ व्याख्या-अभ्युत्थानं, अञ्जलिकरणं, तथैवासनदानं, गुरुभक्तिः, भावोऽन्तःकरणं तेन शुश्रूषा तदादेशं प्रति श्रोतुमिच्छा पर्युपासना च भावशुश्रूषा वा, एष विनय आख्यातः ॥३३॥
वैयावृत्त्यमाह
आयरियमाइयंमि, वेयावच्चंमि दसविहे ।।
आसेवणं जहात्थामं, वेयावच्चं तमाहियं ॥३४॥ व्याख्या-मः अलाक्षणिकः, आचार्यादिके आचार्यादिविषये वैयावृत्त्यं, विधिना धर्मसाधनहेतुमन्नादिसम्पादनं, व्यावृतस्य भावो वैयावृत्त्यं, तस्मिन् दशविधे
आयरिय १ उवज्झाय २, थेर ३ तवस्सी ४ गिलाण ५ सेहाणं ६ ।
साहम्मिय ७ कुल ८ गण ९, संघ १० संगयं तमिह कायव्वं ॥१॥[उ.र./गा.३४वृ.] एवंरूपे दशविधे आसेवनमेतद्विषयमनुष्ठानं यथास्थाम सामर्थ्याऽनतिक्रमेण, तद्वैयावृत्त्यमाख्यातम् ॥३४॥ स्वाध्यायमाह
वायणा पुच्छणा चेव, तहेव परियट्टणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा होइ ॥३५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org