________________
श्रीउत्तराध्ययनदीपिकाटीका - २
व्याख्या-वाचना पृच्छना तथैव परिवर्त्तना अनुप्रेक्षा धर्मकथा च, एवं पञ्चधा स्वाध्यायो भवति, तद्वयाख्या तु प्रागुक्तैव ॥३५॥
ध्यानमाह
४६६
अट्टरुद्दाणि वज्जित्ता, झाइज्जा सुसमाहिए । धम्मसुक्काई झाणाई, झाणं तं तु बुहा वए ॥३६॥
व्याख्या -ऋतं दुःखं, तत्र भवं आर्त्तं, रोदयत्यन्यं हिंसादिनेति रुद्रो हिंसादिप्रवृत्त आत्मा, तस्य कर्म रौद्रं, एवंविधे आर्त्तरौद्रे ध्याने वर्जयित्वा ध्यायेत् सुसमाहितः स्थिरो, धर्मः क्षान्त्यादिदशधा, तत्सहित ध्यानं धर्म्यं, शुचं शोकं कर्मणां क्लमयतीति शुक्लं, एवंविधयोरष्टकर्मघ्नधर्मशुक्लध्यानयोर्यच्चिन्तनं तदेव बुधा ध्यानाख्यं तपो वदन्ति ॥ ३६ ॥
उत्सर्गमाह
सयणासण ठाणे वा, जे उ भिक्खू ण वावरे । कायस्स विउस्सग्गो, छट्टो सो परिकित्तिओ ॥३७॥
>
व्याख्या - शयने, आसने उपवेशने, सुपो लुक्, स्थाने ऊर्ध्वस्थाने स्थितः सन् वा विकल्पे, प्रत्येकं योज्यः, यत्तु भिक्षुर्न व्याप्रियते, न चलनादिक्रियां कुरुते, यथाशक्ति कायस्य व्युत्सर्गे ममत्वस्य त्यागः स्यात्, तत् षष्ठं कायोत्सर्गाख्यं तपः परिकीर्त्तितं शेषा व्युत्सर्गा अत्र ज्ञेयाः, यथा
दव्वे भाव य तहा, दुविहुस्सग्गो चउव्विहो दव्वो । गणदेहो वहिभत्ते, भावे कोहाइचाउ त्ति ॥१॥ []
एतद्वयाख्याSTवश्यकदीपिकातो ज्ञेया ||३७||
अथाध्ययनार्थमुपसंहरन् तपः फलमाह
एयं तवं तु दुविहं, जं सम्मं आयरे मुणी ।
खिप्पं से सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ ३८ ॥ त्ति बेमि व्याख्या - यो मुनिर्यः साधुः एवममुनाप्रकारेण बाह्याभ्यन्तरभेदेन द्विविधं तपः सम्यगाचरति, स पण्डितस्तत्ववेत्ता मुनिः क्षिप्रं तूर्णं (सर्व) संसाराच्चतुर्गतिभ्रमणाद्विशेषेण प्रमुच्यते इति समाप्तौ ब्रवीमीति प्राग्वत् ||३८||
,
इति तपोमार्गगत्याख्यं त्रिंशत्तममध्ययनमुक्तम् ॥३०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org