________________
४६४
श्रीउत्तराध्ययनदीपिकाटीका-२ संलीनतामाह
एगंतमणावाए, इत्थीपसुविवज्जिए ।
सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥ व्याख्या-एकान्ते जनाऽनाकुले, अनापाते स्त्र्याद्यापातरहिते स्त्रीपशुविवर्जिते शून्यागारारामोद्यानादौ, सूत्रत्वात् शयनासनसेवनं विविक्तशयनासनं, बाह्यं तप उच्यते, एषणीयफलादिग्रहणं च, अनेन विविक्तचर्यानामसंलीनतोक्ता, शेषसंलीनता अप्येवं ज्ञेयाः ॥२८॥ संलीनता चतुर्धा
इदियकसायजोगो, पडुच्च संलीनता मुणेयव्वा ।
तह जा विवित्तचरिया, पन्नत्ता वीयराएहि ॥२९॥ व्याख्या-इन्द्रियसंलीनता शब्दादिषु रागद्वेषाऽकृतेः ।१। कषायसंलीनता कषायोदयरोधः ।२। योगसंलीनता मनोवाक्कायानां शुभप्रवृत्तेरशुभनिवृत्तेः ।३। एवमिन्द्रियसंलीनतादित्रयं प्रतीत्य संलीनता ज्ञेया, तथा याऽनन्तरोक्ता विविक्तचर्याख्या संलीनता चतुर्थी, एवं वीतरागैश्चतुर्धा संलीनता प्रज्ञप्तास्ति ॥२९॥ उत्तरग्रन्थसम्बन्धायाह
एसो उ बाहिरतवो, समासेण वियाहिओ।
अभितरो तवो इत्तो, वोच्छामि अणुपुव्वसो ॥३०॥ व्याख्या-एतदनन्तरोक्तं बाह्यं तपः समासेन सङ्क्षपेण व्याख्यातं । बाह्यतप:फलं च नि:सङ्गतादेहलाघवेन्द्रियजयसंयमरक्षादिगुणयोगात् शुभध्यानस्थस्य कर्मक्षपणा । इतोऽनन्तरमभ्यन्तरं तप आनुपूर्व्या वक्ष्यामि ॥३०॥
पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ ।
झाणं उस्सग्गो वि य, अभितरओ तवो होइ ॥३१॥ व्याख्या-पापमालोच्य तपसोऽङ्गीकरणं प्रायश्चित्तं, तथा विनयो वृद्धानामभ्युत्थानादिकरणं, वैयावृत्त्यं वृद्धग्लानादिभ्य आहारौषधाद्यानीय दानं, तथैव स्वाध्यायस्य चतुर्विधस्य विधानं, ध्यानं धर्मशुक्लादिचिन्तनं, उत्सर्गः कायोत्सर्गकरणं, अपि चेति पूर्ती, एवं षड्विधमभ्यन्तरं तपो भवति ॥३१॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org