________________
४६३
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् भिक्षाचर्यामाह
अट्ठविहगोयरग्गं तु, तहा सत्तेव एसणा ।
अभिग्गहा य जे अण्णे, भिक्खायरियमाहिया ॥२५॥ व्याख्या-अष्टविधोऽग्रः प्रधानोऽकल्पनीयपरिहारेण, सचासौ गोचरश्चाष्टविधानगोचरः, स्तोकस्तोकग्राहः, तु समुच्चये, अत्र चाष्टावग्रगोचरगा भेदाः पेटादय एव, शम्बूकाव या द्वैविध्याश्रयणात् , तथा ऋज्वाश्चापराया वलमानत्वे चिन्तितायाः प्रक्षेपात् । सप्तैषणाश्च संस्पृष्टादयः
संसट्ठ १ मसंसट्ठा २, उद्धड ३ तह अप्पलेविया चेव ४ ।
उग्गहिया ५ पग्गहिया ६, उज्झियधम्मा ७ य सत्तमिया ॥१॥ [प्र.सा./गा.७३९] अभिग्रहाश्च द्रव्याद्याः, द्रव्यक्रमेण कुन्ताग्रादिस्थितिमण्डखण्डादि ग्रहीष्ये, क्षेत्रे देहलीजङ्घयोरन्तःकृत्वा दास्यति तदा ग्रहीष्ये, सर्वभिक्षाचरनिवर्त्तनकाले मया विहर्त्तव्यं, भावे हसन् रुदन् बद्धो वा दाता चेद्दास्यति तदा ग्राह्यमित्याद्या भिक्षाचर्यावृत्तिसङ्क्षपा व्याख्याताः ॥२५॥ रसत्यागमाह
खीरदहिसप्पिमाई, पणीयं पाणभोयणं ।
परिवज्जणं रसाणं तु, भणियं रसविवज्जणं ॥२६॥ व्याख्या-क्षीरं, दधि, सर्पिः, आदितो गुडपक्वान्नादि, प्रणीतमिति बृहकं पानं खर्जुररसादि, भोजनं गलबिन्द्वोदनादि, एषां रसानां परिवर्जनं, तुः पूर्ती, रसविवर्जनं नाम बाह्यं तपो भणितं जिनैः ॥२६।।
कायक्लेशमाह
ठाणा वीरासणाईया, जीवस्स उ सुहावहा ।
उग्गा जहा धरिज्जंति, कायकिलिसं तिमाहियं ॥२७॥ व्याख्या-स्थानानि कायावस्थितिभेदाः, वीरासनं, आदितो गोदोहदण्डासनादि, तत्र वामांह्रिर्दक्षिणोरूज़, वामोरूर्ध्वं च यत्र दक्षिणोंऽह्निः क्रियते तद्वीरासनं, यत्र भूम्यां श्लिष्टाङ्गलीश्लिष्टगुल्फश्लिष्टोरू अंह्री प्रसारयेत्तद्दण्डासनं । सूत्रत्वाल्लिङ्गव्यत्ययः, लोचादीनि जीवस्य तु सुखावहानि मुक्तिसुखहेतुत्वात् । उग्राणि दुःकरतया यथा धार्यन्ते सेव्यन्ते यतिभिः, कायक्लेशः स आख्यातो जिनैः ॥२७॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org