________________
४६२
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-दिवसस्य पौरुषीणां चतसृणां अपि, तुः पूर्ती, यावान् भवेत् कालोऽभिग्रहविषयः एवं कालेन चरतः खलु कालावमत्वं कालावमौदर्यं मुणितव्यं ज्ञेयम् ।।२०।। एतदेव प्रकारान्तरेणाह
अहवा तईयाए पोरिसीए, ऊणाइ घासमेसंतो ।
चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥ व्याख्या-अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारमेषयतः, वा शब्दाच्चतुःपञ्चादिभागोनायां वा तृतीयपौरुष्यां, एवं कालाभिग्रहेण चरतः कालेन तु भवेत् कालावमौदर्यं स्यात् ।।२१।। भावावमौदर्यमाह
इत्थी वा पुरिसो वा, अलंकिओ वा अणलंकिओ वावि ।
अण्णयरवयत्थो वा, अण्णयरेणं च वत्थेणं ॥२२॥ व्याख्या स्त्री वा पुरुषो वाऽलङ्कृतोऽनलङ्कृतो वा, बाल्याद्यन्यतरवयस्थो वा, अन्यतरेण वा पट्टवाचकादिवस्त्रेणोपलक्षितः ॥२२।।
अन्नेण विसेसेणं, वण्णेणं भावमणुमुयंतो तु ।
एवं चरमाणो खलु, भावोमोणं मुणेयव्वं ॥२३॥ व्याख्या-अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिना अन्यतरेणोपलक्षितो भावमुक्तरूपमेवालङ्कृतत्वाद्यनुन्मुञ्चन्नेव, यदि दाता दास्यति ततोऽहं गृहीष्ये नान्यथा, एवं चरतो मुनेर्भावावमत्वं मुणितव्यम् ॥२३।। [पर्यवावमौदर्यमाह-]
दव्वे खित्ते काले, भावंमि य आहिया उ जे भावा ।
एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ॥२४॥ व्याख्या-द्रव्येऽनशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ आख्याताः, तुः पूत्तौं, ये भावाः पर्याया एकसिक्थोनत्वाद्यास्तैः सर्वैरवमौदर्यचरकः पर्यवचरको भवेद्भिक्षुः। इह च पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, इह क्षेत्रादि यदाश्रित्यावमौदर्यं चिन्तितं, तन्नाम्नायविवक्षया तदवमौदर्यं ज्ञेयं, मुख्यतस्त्वाहारावमौदर्यमेव ॥२४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org