SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ४६१ त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् आसमपए विहारे, सन्निवेसे समायघोसे य । थलि सेणाखंधावारे, सत्थे संवट्टकोट्टे य ॥१७॥ व्याख्या-आश्रमपदं तापसाधुपलक्षितं पदं स्थानं तस्मिन् , विहारो देवगृहं भिक्षुनिवासो वा, तत्प्रधानो ग्रामादिरपि विहारस्तत्र, सन्निवेशे यात्राद्यायातजनावासे, समाजे पथिकसमूहे, घोषे गोकुले, स्थल्यामुच्चभूभागे, सेना चतुरङ्गबलसमूहः, स्कन्धावारः स एवाऽशेषखेटादिजनपूर्णः, अनयोः समाहारे सेनास्कन्धावारं तस्मिन् , सार्थे गणिमधरिमादिभृतगवादिसङ्घाते, संवर्तन्ते पिण्डीभवन्त्यस्मिन् भयत्रस्ता जनास्तत्र संवर्ते, कोट्टे प्राकारे, क्षेत्रप्रस्तावादत्र समाजादिषु क्षेत्रमेवोपलक्ष्यते ॥१७॥ वाडेसु व रत्थासु व, घरेसु वा एवमित्तियं खित्तं । कप्पइ उ एवमाई, एवं खित्तेण ऊ भवे ॥१८॥ व्याख्या-वाटेषु पाटेषु वा वृत्तिवरण्डकावृतगृहसमूहेषु, रथ्यासु सेरिकासु, गृहेषु, सर्वत्र वा विकल्पार्थः, एवमित्यनेन हृदयस्थप्रकारेण, एतावन्नियतप्रमाणं क्षेत्रं पर्यटितुं भिक्षायै मे कल्पते, तुः पूर्ती एवमादि, आदितो गृहशालादि, एवं क्षेत्रेण क्षेत्रविषमवमौदर्य, तुः पूर्ती, भवेत् ॥१८॥ पुनरन्यथेदमाह पेडा य अद्धपेडा, गोमुत्तिपयंगवीहिया चेव । संबुक्कावट्टाययगंतुंपच्चागया छट्ठा ॥१९॥ व्याख्या-पेटा पेटिका इव चतुष्कोणा १ अर्द्धपेटा इमैव न वरं अर्धसंस्थिता गृहपरिपाटी २ गोमूत्रिका वक्रवलिता ३ पतङ्गविहिता पतङ्गोड्डयनसदृशा ४ शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्ता ५, सा द्विधा शङ्खनाभिरूपे क्षेत्रे मध्याद्बहिर्गम्यते साऽभ्यन्तरशम्बूका, विपरीता बहिःशम्बूका । पुनः षष्ठी आयतगन्तुं प्रत्यागमा ज्ञेया । आदित एव आयतं सरलं गत्वा यस्यां प्रत्यागमो भवति सा षष्ठी गोचरभूमिर्जेया । यदुक्तं"जत्थ उज्जुयं गंतूण नियट्टइ छ?" [ ] त्ति भिक्षाचर्यात्वेऽपि आसां अवमौदर्यं ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यदुष्ट एव, निमित्तभेदादेकत्रापि पितृपुत्रादिव्यपदेशवत् , इदमेवोत्तरं सर्वत्र कालादौ वाच्यम् ॥१९।। [कालावमौदर्यमाह-] दिवसस्स पोरेसीणं, चउण्हं पि उ जत्तिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेयव्वं ॥२०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy