________________
४६०
श्रीउत्तराध्ययनदीपिकाटीका-२ तत्र द्रव्यत आह
जो जस्स उ आहारो, तत्तो ऊणं तु जो करे ।
जहण्णेणेगसित्थाई, एवं दव्वेण ऊ भवे ॥१५॥ व्याख्या-यो यस्य तुः पूर्ती, आहारो भोजनं, ततः स्वाहारादवममूनं, तुरेवार्थे, यः कुर्यात् भुञ्जानः, यतः
बत्तीसं किर कवला, आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला ॥१॥ [पि. नि./गा. ६४२] कवलाण य परिमाणं, कुक्कुडिअंडगपमाणमित्तं तु । जो वा अविगयवयणो, वयणमि छुहेज्ज वीसत्थो ॥२॥ [प्र.सा.गा.२७०वृ.]
तत एतावन्मानादूनं यः कुर्यात् , तथा 'तन्दुलसहस्रद्वयेनैकः कवलः' इत्यापि सङख्यास्ति । तत्र य ऊनाहारस्तस्यैवं द्रव्येण भवेदवमौदर्य, एतच्च जघन्येनैकसिक्थत्वं, यत्रैकसिक्थं भुज्यते तदादि, आदिशब्दाच्छिक्थद्वयादारभ्य यावदेककवलभोजनं, एकेन कवलेन जघन्या, अष्टभिस्तैरुत्कृष्टा, शेषैर्मध्यस्थैरजघन्योत्कृष्टोनोदरिका, तथा नवभिर्जघन्या, द्वादशभिरुत्कृष्टा, शेषैरजघन्योत्कृष्टाः, अत्राल्पाहारा ऊनोदरी अष्टकवलान् यावत् , शेषाण्यूनोदरीनामानि कवलसङ्ख्या च यावत् किञ्चिदूना अन्त्योनोदरी, एवमपा?नोदर्याद्याः प्रकारा नवतत्त्वविवरणादिभ्यः स्पष्टा ज्ञेयाः । अप्पाहार १ अवड्डा २, दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा य ५ ॥१॥[ द.वै.नि.गा.४७वृ.] ।।१५।।
क्षेत्रावमौदर्यमाह
गामे नगरे तह रायहाणि, निगमे य आगरे पल्ली ।
खेडे कवड्डदोणमुह, पट्टणमडंबसंबाहे ॥१६॥ व्याख्या-गम्योऽष्टादशकराणामिति ग्रामः, नाऽत्र करोऽस्तीति नकरस्तस्मिन् , राजधान्यां राज्ञः पीठिकास्थाने, निगमे प्रभूतवणिग्निवासे, समाहारे राजधानीनिगमे, आकरे हिरण्याद्युत्पत्तिस्थाने, पल्ल्यां वृक्षगहनान्त:स्थप्रान्तजननिवासे, खेटे धूलिप्रकारवति, कर्बटे कुनगरे, द्रोणमुखे जलस्थलनिर्गमप्रवेशे भृगुकच्छतामलिप्तप्राये, पत्तने जलस्थलपत्तनभेदे, मडम्बे सर्वतोऽसदर्धतृतीययोजनान्तग्रामे, सम्बाधे प्रभूतचातुर्वर्ण्यनिवासे ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org