________________
४५९
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम्
समविसमंमि य पडिओ, अच्छइ जह पायवो व निक्कंपो । निच्चलनिप्पडिकम्मो, निक्खिवई जं जहिं अंगं ॥१॥[] तं चिय होइ तह च्चिय, न वरं चलणं परप्पओगाओ ।
वायाईहिं तरुस्स व, पडिणीयाईहिं तहिं तस्स ॥२॥[ ] यद्वा परिकर्म संलेखना, सा यत्रास्ति तत्सपरिकर्म, तद्वीपरीतं त्वपरिकर्म, तत्राऽव्याघाते त्रयमप्येतत् , सूत्रार्थोभयनिष्ठितो निष्पादितशिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथा आर्तध्यानसम्भवात् , उक्तं च
देहमि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं ।
जायइ अट्टज्झाणं, सरीरिणो चरिमकालंमि ॥१॥ [पञ्च. व./गा.१५७० ] इति सपरिकर्मोच्यते । यत्पुनर्व्याघाते गिरिभित्तिपतनाघातादिरूपे संलेखनामकृत्वैव भक्तप्रत्याख्यानादि क्रियते तदपरिकर्म, उक्तं चागमे
उग्धाओ वा विज्जूगिरि-भित्तीकोणगा य वा होज्जा ।
संबद्धहत्थपायादयो व वाएण होज्जाहि ॥१॥ [ ] सर्वाङ्गपिण्डकवातेन वा हस्तपादाद्या अवयवाः सम्बद्धा भवेयुः ।
एएहिं कारणेहिं, वाघाइममरणं होइ नायव्वं ।
परिकम्ममकाऊणं, पच्चक्खाइ तओ भत्तं ॥१॥[ ] तथा निर्हरणं निर्हारो गिरिकन्दरादौ गमनेन ग्रामादेर्बहिर्निर्गमनं, तद्विद्यते यत्र तन्निर्हारि, यदुत्थातुकामे वजिकादौ विधीयते तदनिर्हारि, एतच्च प्रकारद्वयमपि पादपोपगमनं ज्ञेयं । यतः
पव्वज्जाइ काउं, णेयव्वं जाव होइ वोच्छित्ती ।
पंच तुले काऊण य, सो पाओवगमं परिणओ य ॥१॥[ ] ॥१३॥ इत्युक्तमनशनं, ऊनोदरतामाह
उमोयरिणं पणहा, समासेण वियाहियं ।
दव्वओ खित्तकालेणं, भावेणं पज्जवेहि य ॥१४॥ व्याख्या-अवमं न्यूनमुदरमवमोदरं, तद्भावोऽवमौदर्यं न्यूनोदरता, तत्पञ्चधा समासेन व्याख्यातं, द्रव्यतः, क्षेत्रं च कालं च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपधिभूतैः ॥१४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org