________________
४५८
श्रीउत्तराध्ययनदीपिकाटीका-२ इङ्गिनीमरणं च विधिना प्रपद्य शुद्धस्थण्डिलस्थ एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानः स्थण्डिलस्यान्तश्छायात उष्णं, उष्णाच्च छायां स्वयं सङ्क्रामति । तथा चाह
इंगियमरणविहाणं, आपव्वज्जं तु वियडणं दाउं । संलेहणं च काउं, जहासमाही जहाकालं ॥१॥ [पञ्च. व./गा.१६२३] पच्चक्खइ आहारं, चउव्विहं नियमओ गुरुसगासे ।
इंगियदेसंमि तहा, चिटुं पि हु इंगियं कुणइ ॥२॥ [पञ्च. व./गा.१६२४] इङ्गितां तत्कालयोग्यां चेष्टाम्
उव्वत्तइ परियत्तइ, काईयमाईसु होई (उ) विभासा । किच्चं पि अप्पण च्चिअ, जुंजइ नियमेण धीबलिओ ॥३॥ [पञ्च. व./गा.१६२५]
अविचारं तु पादपोपगमं, तत्र हि सव्याघाताऽव्याघातभेदाद् द्विभेदे पादपवन्निश्चेष्टतयैव स्थीयते, तथा च तद्विधिः
अथ वंदिऊण देवे, जहाविहिं सेसए य गुरुमाई । पच्चक्खाइत्तु तओ, तयंतिए सव्वमाहारं ॥१॥ [ पञ्च. व./गा.१६१५] समभावंमि ठियप्पा, सम्मं सिद्धंतभणियमग्गेणं । गिरिकंदरं तु गंतुं, पायवगमणं अह करेइ ॥२॥ [पञ्च. व./गा.१६१६] सव्वत्थपडिबद्धो, दंडाययमाइट्ठाणमिह ठाउं । जावज्जीवं चिटुइ, निच्चिट्ठो पायवसमाणो ॥३॥ [पञ्च. व./गा.१६१७] पुनद्वैविध्यमेव प्रकारान्तरेणाह
अहवा सपरिकम्मा, अपरिकम्मा य आहिया ।
नीहारिमणीहारी, आहारछेओ दोसु वि ॥१३॥ व्याख्या-अथवा सह परिकर्मणा स्थाननिषदनत्वग्वर्त्तनादिना विश्रामणादिना च वर्त्तते यत्तत्सपरिकर्म, अपरिकर्म च तद्वीपरीतमाख्यातं, तत्र सपरिकर्म भक्तपरिज्ञा, इङ्गिनीमरणं चैकत्र स्वयमन्येन वा कृतस्याऽन्यत्र तु स्वयं विहितस्योद्वर्त्तनादिचेष्टापरिकर्मणोऽनुज्ञानात् , तथाह
आयपरपरिकम्मं, भत्तपरिन्नाए दो अणुण्णाया । पडिवज्जिया य इंगिणि, चउव्विहाहारविरई य ॥१॥[] ठाणनिसीयतुयट्टण, इत्तिरियाइं जहासमाहीए ।
सयमेव य सो कुणइ, उवसग्गपरीसहऽहियासो ॥२॥ [ ] अपरिकर्म च पादपोपगमने निःप्रतिकर्मतयैव तत्राभिधानात् , तथा चागमः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org