SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ४५७ ० त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् १ २ ३ ४ । २ ३ ४ २ ३ ४ १ ३ ४ १ ३ ४ १ २ | ४ १ २ १ | ३ ४ २ | ४ १ ३ | १ २ १ २ ३ २ । ४ ३ | १ ४ । २ १ २ ३ २ ३ ४ ३ ४ १ oc m घन एव घनेन गुणितो वर्गस्तपः ४०९६ ॥१०॥ तत्तो य वग्गवग्गो य, पंचमो छट्ठओ उ पइण्णतवो । मणइच्छियचित्तत्थो, नायव्वो होइ इत्तरिओ ॥११॥ व्याख्या-ततश्च वर्गतपसोऽनन्तरं वर्गो वर्गेण ताडितो वर्गवर्गतपो यथा१६७७७२१६ एवं पञ्चादिश्रेण्यादिभावना कार्या । षष्ठकं प्रकीर्णतपः श्रेण्यादिनि यतरचनारहितं स्वशक्त्यपेक्षं नमस्कारसहितादि पूर्वपुरुषादिचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि, मनस इप्सित इष्टश्चित्रोऽनेकप्रकारोऽर्थः स्वर्गापवर्गादिस्तेजोलेश्यादि यस्मात्तदित्वरिकमनशनाख्यं तपः ॥११॥ मरणकालमनशमाह जा सा अणसणा मरणे, दुविहा सा वियाहिया । सवियारा अवियारा, कायचेटुं पई भवे ॥१२॥ व्याख्या-यत्तदनशनं मरणे मरणावसरे तद् द्विविधं विशेषेणाख्यातं, सहविचारेण चेष्टया वर्त्तते यत्तत्सविचारं, तद्विपरीतं चाऽविचारं, विचारः कायवाग्मनोभेदानिधेति, तद्विशेषज्ञप्त्यै आह-कायचेष्टामुद्वेष्टनपरिवर्तनादि प्रतीत्याश्रित्य भवेत् , तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च । तथाहि-भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय, ततस्त्रिविधं चतुर्विधं चाहारं प्रत्याचष्टे, स च समास्तृतमृदुसंस्तारकः समुत्सृष्टशरीराद्युपकरणममत्वः स्वयमुच्चरितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा, सत्यां शक्तौ स्वमुद्वर्त्तते, शक्तेरभावे परैरपि किञ्चित् कारयति । यत उक्तम् वियडणमब्भुट्ठाणं, उचियं संलेहणं च काऊणं । पच्चक्खइ आहारं, तिविहं (च) चउव्विहं वावि ॥१॥ [पञ्च. व./गा.१६७१] उव्वत्तइ परियत्तइ, सयमन्नेणावि कारए किंचि । जत्थ समत्थो नवरं, समाहिजणयं अपडिबद्धो ॥२॥ [पञ्च. व./गा.१६७२] Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy