________________
४५६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-इत्वरकं नियतकालावधि अनशनं, मरणावसानः कालो यस्य तन्मरणकालं यावज्जीवमनशनं, एवमनशनं द्विविधं भवेत् , स्त्रीलिङ्गता सर्वत्र प्राकृत्वात् , अनशनशब्देन सामान्यत आहारत्यागो ज्ञेयः, इत्वरकं सहावकाङ्क्षया, घटिकाद्वयाद्युत्तरकालं भोजनेच्छया वर्त्तत इति सावकाङ्क्ष, ततो (तुशब्दस्य) भिन्नक्रमत्वाद् द्वितीयं पुनर्निरवकाक्षं, तज्जन्मन्याहारशंसाऽभावात् ।।९।।
जो सो इत्तिरिओ तवो, सो समासेण छव्विहो ।
सेढितवो पयरतवो, घणो य तह होइ वग्गो य ॥१०॥ व्याख्या-यत्तदित्वरिकं तप इत्वरिकाऽनशनं तत्समासेन सङ्क्षपेण षड्विधं, विस्तरेण च बहुतरभेदं षड्भेदानाह-श्रेणिः पङ्क्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादि षण्मासान्तं, श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षितं प्रतरतपः, यथा द्विपर्यन्तप्रतरे श्रेणिद्वयं, त्रिपर्यन्ते श्रेणित्रयं, चतुःपर्यन्ते श्रेणिचतुष्कं, इत्यादि । १८० प्रतरान् यावदिहाऽव्यामोहार्थं चतुर्थषष्ठामदशमाख्यपदचतुष्टय श्रेणिर्विवक्ष्यते, सा चतुर्भिर्गुणिता षोडशपदात्मकः प्रतर: स्यात् , अस्य स्थापनोपायश्चेत्थम्
एकाद्याद्या व्यवस्थाप्याः, पङ्क्तयोऽत्र यथाक्रमं ।
एकादींश्च निवेश्यानन्तः, क्रमात् पङ्क्तिं प्रपूरयेत् ॥१॥ यन्त्रस्थापना
२
।
३
।
घन इति घनतपो, भवतीति प्रतिपदं योज्यं । षोडशपदात्मकः प्रतरः पदचतुष्टयात्मकतया गुण्या गुणितो घनः स्यात् , आगतं ६४, स्थापना पूर्विकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकं, यथा एककेन प्रथमश्रेणिचतुष्कमारभ्यते, द्वितीयवारं द्विकेन श्रेणिचतुष्कमारभ्यते, तृतीयं श्रेणिचतुष्कं त्रिकेणारभ्यते, तुर्यं श्रेणिचतुष्कं चतुष्केणारभ्यते । एवं श्रेणिचतुष्कचतुष्केण चतुःपर्यन्तघने १६ ओल्यः ६४ उपवासाः स्युः, स्थापना चेयं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org