SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् ४५५ द्वेषाभ्यां समर्जितं कर्म तपसा यथा भिक्षुः क्षपयति, तन्मे कथयतः सत एकमनाः शृणु ! (पाठान्तरे-एकं अग्रं ध्येयं यस्य तदेकाग्रं, एकाग्रं च तन्मनश्चेति एकाग्रमनस्तदस्येत्येकाग्रमनाः शृणु !) ॥४॥ जहा महातलागस्स, सन्निरुद्ध जलागमे । उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निषिद्धे जलागमे, सूत्रत्वादुत्सेचनेनाऽरघट्टाद्यादिभिरुदञ्चनेन तपनेनार्कतापेन क्रमेण परिपाट्या शोषणा तस्य जलस्य भवेत् ।।५।। एमेव संजयस्सावि, पावकम्मनिरासवे । भवकोडीसंचियं कम्मं, तवसा निज्जरज्जई ॥६॥ व्याख्या-एवमेव पूर्वोक्तप्रकारेण पापकर्मणामाश्रवाभावे पापकर्मनिराश्रवे सति संयतस्यापि साधोरपि भवकोटीनां बह्वीनां सञ्चितं कर्म तपसा निर्जीर्यते ॥६॥ किं तत्तप इति भेदानाह सो तवो दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छव्विहो वुत्तो, एवमभितरो तहा ॥७॥ व्याख्या-तत्तपः, सूत्रत्वाल्लिङ्गव्यत्ययः, द्विविधमुक्तं बाह्यमाभ्यन्तरं च, तत्र बाह्यं षड्विधमुक्तं, तद्वाह्यत्वं च लोकैरपि स्वरीत्या क्रियमाणत्वात् पञ्जयमानत्वाच्च । एवमिति षड्विधमभ्यन्तरं तथा ।।७।। बाह्यमाह अणसणमूणोयरिया, भिक्खायरिया य रसपरिच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥८॥ व्याख्या-अनशनं १ ऊनोदरिका २ भिक्षाचर्या ३ रसपरित्यागः ४ कायक्लेशः ५ संलीनता ६ च एवं षड्विधं बाह्यं तपो भवति ॥८॥ तत्रानशनमाह इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तिरिय सावकंखा, निरवकंखा उ बिइज्जिया ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy