________________
त्रिंशत्तमं तपोमार्गगत्याख्यमध्ययनम् ॥
साधुगुणवद्भिरप्रमादैश्च मोक्षमार्गगत्यै तपः कार्यमिति त्रिंशं तपोमार्गगत्यध्ययनमाहनिरुक्तमिदं-तपसा रत्नत्रयसहितो मार्गो मुक्तेस्तपोमार्गस्तेन गतिः सिद्धौ तपोमार्गगतिः
जहा उ पावयं कम्मं, रागदोससमज्जियं ।
खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥ व्याख्या-यथा तुरेवार्थे, पापकर्म ज्ञानावरणादि रागद्वेषाभ्यां समर्जितं सम्यग्बद्धं क्षपयति तपसा भिक्षुः, तत्तप एकाग्रमनाः शृणु ! ।।१।। इहाऽनाश्रवः कर्म क्षपयतीत्याह
पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ।
राईभोयणविरओ, जीवो भवइ अणासवो ॥२॥ व्याख्या-प्राणिवधान्मृषावादाददत्तान्मैथुनात्परिग्रहाद्विरतश्च रात्रिभोजनाद्विरतो जीवो भवत्यनाश्रवः कर्मोपादानहेतुरहितः ॥२॥
पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ ।
अगारवो य निस्सल्लो, जीवो भवइ अणासवो ॥३॥ व्याख्या-पञ्चसमितिभिः समितस्त्रिगुप्तिभिर्गुप्तः, अकषायो जितेन्द्रियोऽगौरवो निःशल्यो जीवो भवत्यनाश्रवः ॥३॥ ईदृशश्च यादृक्कर्म यथा क्षपयति दृष्टान्तद्वारेण तदाह
एएसिं तु विवच्चासे, रागदोससमज्जियं ।
खवेइ उ जहा भिक्खू, तमेग्गमणो सुण ॥४॥ व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां च विपर्यासे सति, राग
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org