________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४५३
सातावेदनीयं नरायुः नृगत्यादिनाम उच्चैर्गोत्रादिगोत्रं, एतानि चत्वारि सत्कर्माणि युगपत् क्षपयति, ततो वेदनीयादिक्षयादनु औदारिककार्मणशरीरे तैजसं च सर्वाभिविशेषेण प्रकर्षतो हानयस्त्यागादिप्रहाणयो व्यक्त्यपेक्षं बहुवचनं, ताभिः कोऽर्थः ? सर्वथा शाटनेन प्रविहाय परिशाट्य, न तु प्राग्वद्देशत्यागेन, औदायिकादिभावांश्च त्यक्त्वा ।
,
यतः -
तस्सोदइया भावा, भव्वत्तं च विणियत्तए जुगवं । सम्मत्तनाणदंसणसुहसिद्धत्ताणि मोत्तूणं ॥ १ ॥ [ ]
ऋजुरवक्रा श्रेणिराकाशप्रदेशपङ्क्तिस्तां प्राप्त ऋजुश्रेणिप्राप्तोऽनुश्रेणिगत इत्यर्थः, अस्पृशद्गतिः, कोऽर्थः ? यावत् स्वाकाशप्रदेशेषु जीवोऽवगाढस्तावदेव स्पृशन् ऊर्ध्वमेकसमयेनाऽविग्रहेण विग्रहगत्यभावेन, अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरः स्यादित्यविग्रहेणेत्युक्तं । तत्र मुक्तिपदे गत्वा साकारोपयुक्तो ज्ञानोपयोगवान् सिद्ध्यति । इह चूर्णौ "सीलेसी णं भंते ! जीवे किं जणयइ, अकम्मं जणयइ, अकम्मयाओ जीवा सिज्झंति " [ ] इति पाठः' एवं पाठा अनेके सन्ति ॥७२॥
उपसंहर्तुमाह
एसो खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेण अग्घविए पन्नविए परूविए दंसिए निदंसिए उवदंसिए ॥ ७३ ॥ त्ति बेमि
व्याख्या - एष खलु सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'अग्घविए’त्ति आर्षत्वादाख्यातः सामान्यविशेषाभ्यां पर्यायाभिव्याप्त्युक्त्या १ प्रज्ञापितो हेतुफलादिप्रकर्षज्ञापनेन २ प्ररूपितः स्वरूपकथनेन ३ दर्शितो नानाविधभेददर्शनेन ४ निदर्शितो दृष्टान्तोपन्यासेन ५ उपदर्शित एवं परैर्वाच्यमित्युपसंहारेण ६ इति समाप्तौ ब्रवीमीति प्राग्वत् ॥
इति साधुगुणवाचि सम्यक्त्वपराक्रमं गौणतोऽप्रमादं वीतरागश्रुतं चेति नामकमेकोनत्रिंशाध्ययनमुक्तम् ॥२९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org