SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ४५२ शैलेश्यकर्मताद्वारे व्याख्याति अहाउयं पालइत्ता अंतोमुहुत्तद्धावसेसाऊए जोगनिरोहं करेमाणे, सुहुमकिरियं अप्पडिवाइं सुक्कज्झाणं झायमाणे तप्पढमयाए मणजोगं निरुंभइ, वयजोगं निरुंभइ, वयजोगं निरुंभित्ता कायजोगं निरुंभइ, कायजोगं निरुंभित्ता आणपाणुनिरोहं करेइ, आणपाणुनिरोहं करिता ईसिपंचरहस्सक्खरुच्चारद्धाए णं अणगारे समुच्छिण्णकिरियं, अनियट्टि सुक्कज्झाणं ज्झियायमाणे वेयणिज्जं आउयं नामं गोतं च, एए चत्तारि वि कम्मं से जुगवं खवेइ, तओ ओरालियकम्माई च सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढीपत्ते अफुसमाणगई उड्डुं एगसमएणं अविग्गहेणं गंता सागारोवउत्ते सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणं अंतं करेइ ॥७२॥ श्रीउत्तराध्ययनदीपिकाटीका - २ व्याख्या-अथ केवलाप्तेरनु अन्तर्मुहूर्त्तादिदेशोनपूर्वकोटिं यावदायुः पालयित्वा, अन्तर्मुहूर्तं अद्धाकालो अवशेषं उद्धरितं यस्मिंस्तदन्तर्मुहूर्त्ताद्धावशेषं तदायुरस्येत्यन्तर्मुहूर्त्ताद्धावशेषायुष्कः सन् ( पाठान्तरे - अन्तर्मुहूर्त्तमात्रावशेषाद्धायां वा ) योगनिरोधं करिष्यमाणः, सूक्ष्मा क्रिया यत्र तत् सूक्ष्मक्रियमप्रतिपाति शुक्लध्यानं तृतीयभेदरूपं ध्यायंस्तत्प्रथमतया मनोयोगं, क्वापि हेतौ क्रियमाणं मनोव्यापारं रुणद्धि, पर्याप्तमात्रसङ्क्षिनो जघन्यमनोयोगयुक्तस्य यावन्ति मनोद्रव्याणि तत्कृतश्च यावान् व्यापारस्तदसङ्ख्यगुणहीनानि मनोद्रव्याणि तद्व्यापारं च प्रतिसमयं रुन्धन् असङ्ख्यसमयैर्मनसः सर्वरोधं कुर्यात्, तत्कृत्वा वाग्योगव्यापारं पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसङ्ख्यगुणहीनांस्तत्पर्यायान् समये रुन्धन्नसङ्ख्यसमयैः सर्ववाग्योगं निरुन्धति, तत्कृत्वा आद्यसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्यगुणहीनं काययोगमेकैकसमये निरुन्धन् सुषिरपूर्त्या देहत्रिभागं च मुञ्चन्नसङ्ख्यसमयैः सर्वं रुणद्धि काययोगं, तत्कृत्वा आनपानयोरुच्छ्वासनिःश्वासयोर्निरोधं करोति, सकलकाययोगनिरोध एवं कृतः स्यात् । एवं योगत्रयं रुद्ध्वा स शैलेशीकरणं करोति । यथा ईषदिति स्वल्पः, प्रयत्नापेक्षया पञ्चानां ह्रस्वाक्षराणां अइउऋलृरूपाणामुच्चारस्तस्याद्धा कालस्तस्यां च णमिति प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनिवर्त्ति शुक्लध्यानं तुर्यं भेदं ध्यायन् शैलेश्यव - स्थामनुभवन्, ह्रस्वाक्षरोच्चारणं चाऽविलम्बिताऽद्रुतं मध्यमभावेन ज्ञेयं । तदा च Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy