________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४५१ यति, तच्चरमखण्डमपि पुनरसङ्ख्येयसूक्ष्मखण्डानि कृत्वा तत्तथैव क्षपयति । एवं मोहनीयं क्षपयित्वान्तर्मुहूर्त यथाख्यातचारित्रमनुभवन् छद्मस्थवीतरागता, द्विचरमसमययोः प्रथमसमये निद्राप्रचले प्रकृती: क्षपयति, अथ चरमसमये तु यत् क्षपयति तत्सूत्रकृदाह
पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चविधमन्तरायं, 'एए'त्ति लिङ्गव्यत्ययादेतानि त्रीण्यपि वक्ष्यमाणरूपाणि 'कम्मं से'त्ति सत्कर्माणि युगपत् क्षपयति । ततः क्षपणातः पश्चादनन्तरं, नास्मादुत्तरं प्रधानं ज्ञानमस्तीत्यनुत्तरं, अनन्तमविनाशतया विषयानन्त्याच्च, कृत्स्नं कृत्स्नवस्तुविषयत्वात् , परिपूर्ण सकलस्वपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् , निरावरणमशेषावरणविगमात् , वितिमिरं तस्मिन् सति क्वचिदप्यज्ञानतिमिराऽभावात् , विशुद्धं सर्वदोषविगमात् , लोकाऽलोकप्रभावकं तत्स्वरूपप्रकाशकत्वात् , केवलमसहायं, वरं शेषज्ञानापेक्षया, ज्ञानं च दर्शनं चेति समासः, समुत्पादयत्यात्मनि, स यावत्सयोगी मनोवाक्कायव्यापारवान् भवति तावदीर्यागतिस्तस्याः पन्था स्थानं ईर्यापथस्तस्मिन् भवमीर्यापथिकं कर्म, यतः सयोगिकेवलिनां सूक्ष्मगात्रसंचाराः स्युः, यतः प्रज्ञप्त्यां
"केवली णं भंते ! अस्सि समयंसि जेसु [आगास ]पएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिज्जा पहू णं भंते ! केवली तेसु चेवागासपएसेसु हत्थं वा पायं वा पडिसाहरित्तए, नो इणमढे [ समढे] केवलिस्स णं चलाई सरीरोवगरणाइं हवंति, चलोवगरणत्ताए केवली नो संचाएति, तेसु चेवागासपएसेसु हत्थं वा पायं वा पडिसाहरित्तए" । तदेवं केवली पथि तिष्ठन्नैर्यापथिकं कर्म बध्नाति, तच्च कीदृगित्याहसुखयतीति सुखस्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुखस्पर्शं द्विसमयस्थितिकं प्रथमसमये बद्धं, स्पर्शाऽविनाभावित्वाच्चास्पृष्टत्वं च, द्वितीयसमये वेदितमनुभूतं, तृतीयसमये निर्जीर्णं परिशाटितं, तदधिकस्थितेः कषायहेतुत्वात् , यतः-"जोगा पयडिपएसं, ठियअणुभागं कसायओ कुणइ" || [ ] इति, तद्बद्धं जीवप्रदेशैः श्लिष्टं व्योम्ना घटवत् , स्पृष्टं मसृणमणिकुड्यां पतितशुष्कस्थूलशिलाचूर्णवत् , इति विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थाऽभावमाह । उदीरितमुदयप्राप्तमुदीरणायास्तत्राऽसम्भवात् , वेदिततत्फलसुखानुभवेन, निर्जीर्णं क्षयमुपगतं । 'सेयाल'त्ति सूत्रत्वादेष्यत्काले तुर्यसमयादौ अकर्मा वा भवति । तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामभावात् तच्च सातवेद्यमेव। यतः
अप्पं बायर मउयं, बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वयंति य, सायाबहुलं च तं कम्मं ॥१॥[ ] ॥७१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org