________________
४५०
श्रीउत्तराध्ययनदीपिकाटीका-२ इरियावहियं कम्मं बंधइ, सुहफरिसं दुसमयट्टिईयं तं पढमसमए बद्धं बीइयसमए वेइयं तईयसमए निज्जिण्णं तं बद्धं पुढे उदीरियं वेइयं निज्जिण्णं सेयाले अकम्मं वा भवइ ॥७१॥
व्याख्या हे भदन्त ! प्रेमद्वेषमिथ्यादर्शनविजयेन जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रेम रागः, द्वेषोऽप्रीतिः, मिथ्यादर्शनं शांसयिकादि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायां जीवोऽभ्युत्तिष्ठते, प्रेमादि निमित्तत्वात्तद्विराधनायाः, ततश्चाष्टविधकर्मणां मध्यं कर्मग्रन्थिरतिदुर्भेदघातिकर्मजालं, तस्य विमोचना क्षपणा तदर्थं चाभ्युत्तिष्ठते (अट्ठविहकम्मविमोहणाए वा पाठः) ततश्च प्रथमतया, न हि तत्पुरा क्षपितमासीत् , यथाानुपूर्वी आनुपूर्व्यनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्धातयति । क्षपकश्रेण्यारूढः “अण मिच्छ मीस सम्म"[ ] इत्यावश्यकनियुक्त्युक्रमेण यावत् “पढमे निदं पयलं" [ ] क्षपयति । अत्रायं क्षपणक्रम:
आदावनन्तानुबन्धिनः क्रोधादीन् युगपदन्तर्मुहूकर्तेन क्षपयति, तदनन्तभागं च मिथ्यात्वे प्रक्षिपति, ततस्तेन सहैव मिथ्यात्वं क्षपयति । प्रवर्द्धमानोऽतितीव्रशुभपरिणामत्वात् सम्भृतवनानल इवार्द्धदग्धेन्धन इन्धनान्तरं, ततो मिथ्यात्वांशं सम्यग्मिथ्यात्वे प्रक्षिप्य तत् क्षपयति । ततोऽपि तदंशसहितसम्यक्त्वं, तदनु सम्यक्त्वावशिष्टदलिकसहितमप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपदेव क्षपयितुमारभते । तत्क्षपणं च कुर्वन्नेताः प्रकृती: क्षपयति । तद्यथा
गइ आणुपुव्वि दो दो, जाइणामं च जीव चउरिंदी । आयावं उज्जोयं, थावरणामं च सुहुमं च ॥१॥[ ] साहारणमप्पज्जत्तं, निद्दनिदं च पयलपयलं च ।
थीणं खवेइ ताहे, अवसेसं जं च अट्ठण्हं ॥२॥[ ] ततोऽपि किञ्चित् सावशेषं नपुंसकवेदमध्ये प्रक्षिप्य तं तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं, तदवशिष्टान्वितं च हास्यादिष्टकं, तदंशसहितं च पुरुषवेदखण्डद्वयं यदि पुरुषः प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः स्वस्ववेदखण्डद्वयं, ततः क्षप्यमाण-- वेदतृतीयखण्डसहितं सज्वलनं कोपं क्षपयति । एवं पूर्वपूर्वांशसहितमुत्तरोत्तरं क्षपयति, तावत्सज्वलनलोभतस्तृतीयखण्डं तु सङ्ख्येयानि खण्डानि कृत्वा पृथक्कालभेदेन क्षपयति, तत्र च क्षपणकालः प्रत्येकं सर्वत्र चान्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्याऽसङ्ख्यभेदत्वात्ततस्तच्चरमखण्डमसङ्ख्येयखण्डानि करोति, तानि च प्रतिसमयेमेकैकतया क्षप
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org