SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ४४९ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् क्रोधविजयेन, क्रोधस्य विजयो दुरन्ततादिभावेनोदयनिरोधस्तेन जीवः क्षान्ति जनयति, पुनः क्रोधवेदनीयं मोहनीयकर्मणो भेदरूपं कर्म न बध्नाति, पूर्वबद्धं च तत्कर्म निर्जरयति ॥६७॥ __ माणविजएणं भंते जीवे किं जणयइ ? माणविजएणं महवं जणयइ, माणवेयणिज्जं कम्मं ण बंधइ, पुव्वबद्धं च निज्जरेइ ॥६८॥ व्याख्या हे भदन्त ! मानविजयेन जीवः किं जनयति ? गुरुराह हे शिष्य ! मानविजयेन जीवो माईवं जनयति, मानवेदनीयं कर्म च न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६८॥ मायाविजएणं भंते जीवे किं जणयइ ? मायाविजएणं उज्जुभावं जणयइ, मायावेयणिज्जं च कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६९॥ व्याख्या हे भदन्त ! मायाविजयेन जीवः किं जनयति ? गुरुराह हे शिष्य ! मायाविजयेन जीव ऋजुभावं सरलत्वं जनयति, ततश्च मायावेदनीयं कर्म न बध्नानि, पूर्वबद्धं च कर्म निर्जरयति ॥६९|| __ लोभविजएणं भंते जीवे किं जणयइ ? लोभविजएणं संतोसीभावं जणयइ, लोभवेयणिज्जं कम्मं न बंधइ, पुव्वबधं च निज्जरेइ ॥७०॥ व्याख्या हे भदन्त ! लोभविजयेन जीवः किं जनयति ? गुरुराह हे शिष्य ! लोभविजयेन जीवः सन्तोषिभावं जनयति, लोभवेदनीयं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥७०॥ एतज्जयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विना यतस्तमाह पिज्जदोसमिच्छादसणविजएणं भंते जीवे किं जणयइ ? पिज्जदोसमिच्छादसणविजएणं नाणदंसणचरित्ताराहणयाए अब्भुट्टेइ, अट्ठविहस्स कम्मस्स गंठिविमोयणठाए तप्पढमयाएणं जहाणुपुव्विए अट्टाविंसतिविहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं नवविहं दसणावरणं पंचविह अंतरायं, एए तिन्नि वि कम्मं से जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुन्नं निरावणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy