________________
४४८
श्रीउत्तराध्ययनदीपिकाटीका-२ ___व्याख्या हे भदन्त ! चक्षुरिन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह हे शिष्य ! चक्षरिन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञरूपेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६३।।
___घाणिंदियनिग्गहेणं भंते जीवे किं जणयइ ? घाणिदियनिग्गहेणं मणुण्णामणुण्णेसु गंधेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६४॥
व्याख्या हे भदन्त ! घ्राणेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह हे शिष्य ! घ्राणेन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञगन्धेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६॥
जिब्भिदियनिग्गहेणं भंते जीवे किं जणयइ ? जिब्भिदियनिग्गहेणं मणुण्णामणुण्णेसु रसेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बद्धइ, पुव्वबद्धं च णिज्जरेइ ॥६५॥
व्याख्या-हे भदन्त ! जिह्वेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह हे शिष्य ! जिह्वेन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु रसेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं कर्म न बध्नाति, पूर्वबद्धं च निर्जरयति ॥६५॥
फासिंदियनिग्गहेणं भंते जीवे किं जणयइ ? फासिदियनिग्गहेणं मणुण्णामणुण्णेसु फासेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६६॥
व्याख्या हे भदन्त ! स्पर्शेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह हे शिष्य ! स्पर्शेन्द्रियनिग्रहेण जीवो मनोज्ञाऽमनोज्ञेषु स्पर्शेषु रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं स्पर्शसम्बन्धि रागद्वेषजं कर्म न बध्नाति, प्राग्बद्धं स्पर्शाश्रयणे रागादिना कर्म स्पर्शेन्द्रियनिग्रहवान् निर्जरयति ॥६६।।
एतन्निग्रहोऽपि कषायविजयात् स्यादिति तमाह
कोहविजएणं भंते जीवे किं जणयइ ? कोहविजएणं खंतिं जणयइ, कोहवेयणिज्जं च कम्मं न बंधइ, पुव्वबद्धं च निज्जरेइ ॥६७॥
व्याख्या हे भदन्त ! क्रोधविजयेन जीवः किं जनयति ? गुरुराह हे शिष्य !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org