________________
४४७
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
शिष्य ! दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वितया भवहेतुमिथ्यात्वक्षपणं करोति, कोऽर्थः ? क्षायिकसम्यक्त्वं प्राप्नोति, ततश्च परमित्युत्तरकालं उत्कृष्टस्तस्मिन्नेव भवे, मध्यमजघन्यापेक्षया तृतीये चतुर्थे वा केवलाप्तौ ज्ञानदर्शनप्रकाशाऽभावरूपं विध्यापनं नाप्नोति परं तत्प्रकाशमविध्यापयन् अनुत्तरेण क्षायिकत्वात् प्रधानेन ज्ञानदर्शनेनात्मानं संयोजयन् प्रतिसमयमपराऽपरेणोपयोगरूपतयोत्पद्यमानेन घटयन् संयोजनं च भेदेऽपि स्यादित्याह सम्यग्भावयंस्तेनात्मनाऽात्मसान्नयन् विहरति भवस्थकेवलितया ।
चरित्तसंपण्णयाए णं भंते जीवे किं जणयइ ? चरित्तसंपण्णयाए णं सेलेसीभावं जणयइ, सेलेसिं पडिवण्णे य अणगारे चत्तारि केवलिकम्मं से खवेइ, तओ पच्छा सिज्झइ जाव सव्वदुक्खाणमंतं करेइ ॥ ६१ ॥
व्याख्या–हे भदन्त ! चारित्रसम्पन्नतया जीवः किं जनयति ? गुरुराह हे शिष्य ! चारित्रसम्पन्नतया यथाख्यातचारित्रसहितत्वेन जीवः शैलेशीभावं जनयति । शिलानामिमे शैलाः पर्वतास्तेषामीशो मेरुः, स इव शैलेशो मुनिर्निरुद्धयोगतयाऽत्यन्तस्थैर्येण, तस्येयमवस्था शैलेशीभावस्तमुत्पादयति । एवंविधां शैलेश्यवस्थां प्रतिपन्नश्चानगारश्चतुरः कर्मांशान् केवलिसत्कान् क्षपयति, ततः पश्चात् सिध्यतीति यावत् सर्वदुःखानामन्तं करोति ॥ ६१ ॥
चारित्रं चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह
सोइंदियनिग्गहेणं भंते जीवे किं जणयड़ ? सोइंदियनिग्रहेणं मणुन्नामणुन्नेसु ससु रागद्दोसनिग्गहं जणयइ, तप्पच्चइयं च कम्मं न बंधड़, पुव्वबद्धं च निज्जेर ॥ ६२ ॥
व्याख्या–हे भदन्त ! श्रोत्रेन्द्रियनिग्रहेण जीवः किं जनयति ? गुरुराह हे शिष्य ! श्रोत्रेन्द्रियस्य निग्रहः स्वविषयाभिमुखमनुधावतो नियमनं, तेन मनोज्ञाऽमनोज्ञेषु शब्देषु स रागद्वेषनिग्रहं जनयति, तत्प्रत्ययिकं रागद्वेषनैमित्तिकं कर्म च नवं न बध्नाति, प्राग्बद्धं शब्दाश्रयेण रागादिना कर्म, तच्छ्रोत्रनिग्रहवान् निर्जरयति, तेनेन्द्रियनिग्रहे प्राक्तनतत्कर्मक्षयनवकर्माऽबन्धादनन्तो लाभः ||६२॥
चक्खिदियनिग्गणं भंते जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु रूवेसु रागद्दोसनिग्गहं जणय तप्पच्चइयं कम्मं न बंधइ, पुव्वबद्धं च निज्जेरेइ ॥ ६३ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org