________________
४४६
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या हे भदन्त ! कायसमाधारणया जीवः किं जनयति ? गुरुराह हे शिष्य ! कायसमाधारणया संयमयोगेषु सम्यग्व्यवस्थानेन जीवश्चारित्रपर्यवान् चारित्रभेदान् क्षायोपशमिकान् विशोधयति, तथा विशोध्य च यथाख्यातचारित्रं विशोधयति । सर्वथा ह्यसत उत्पत्त्यसम्भव इति पूर्वमपि कथञ्चित् सदेव यथाख्यातचारित्रं चारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते । एवं च यथाख्यातं विशोध्य केवलिकर्मांशांश्चतुरः क्षपयति, ततश्च पश्चात्सिद्धयति बुद्ध्यते मुच्यते परिनिर्वाति सर्वदुःखानां चान्तं करोतीत्यादि पूर्ववत् ॥५८।।
एवं समाधारणत्रयात् क्रमेण ज्ञानादित्रयशुद्धिमुक्त्वाऽथ फलमाह
नाणसंपण्णयाए णं भंते जीवे किं जणयइ ? नाणसंपण्णयाए णं जीवे सव्वभावाभिगमं जणयइ, नाणसंपण्णे जीवे चाउरंतसंसारकंतारेण विणस्सइ,
जहा सूई ससुत्ता, पडियावि न विणस्सइ ॥
तहा जीवो वि ससुत्तो संसारे ण विणस्सइ ॥१॥[ ] नाणविणयतवचरित्तजोगे संपाउणइ, ससमयपरसमयसंघायणिज्जे भवइ ॥५९॥
व्याख्या-हे भदन्त ! ज्ञानसम्पन्नतया जीवः किं जनयति ? गुरुराह हे शिष्य ! ज्ञानं श्रुतज्ञानं तत्सम्पन्नतया सर्वभावानां जीवादितत्त्वानामभिगमं ज्ञानं जनयति, ज्ञानसम्पन्नश्च जीवश्चातुरन्ते चातुर्गतिके संसारकान्तारे संसाराऽरण्ये न विनश्यति, न मुक्तिमार्गाद्विशेषेण दूरीभवति, अत्र सूचीदृष्टान्तमाह-यथा सूची ससूत्रा दवरकसहिता कचवरादौ न विनश्यति द्रुतमेव लभ्यते, तथा जीवोऽपि ससूत्रः सश्रुतः संसारे न विनश्यति, संसारात् कदाचिदपि निर्याति, तथैव स ज्ञानमवध्यादि, विनयं, तपः चारित्रयोग्याश्चारित्रप्रधानव्यापारास्तान् सम्प्राप्नोति । पुनः स जीवः स्वसमयपरसमययोः सङ्घातनीयः प्रधानपुरुषतया मीलनयो विद्वत्सु गणनीयो भवति, अत्र स्वपरसमयशब्दाभ्यां तद्ववेदिनो नरा ज्ञेयाः ॥५९॥
दसणसंपन्नयाए णं भंते जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेयणं करेइ, परं न विज्झाइ, अणुज्झायमाणो अणुत्तरेणं णाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणेणं विहरइ ॥६०॥
व्याख्या-हे भदन्त ! दर्शनसम्पन्नतया जीवः किं जनयति ? गुरुराह हे
१. सूई जहा ससुत्ता ण णस्सई कयवरंमि पडियावि ।।
जीवो तहा ससुत्तो ण णस्सइ गओ वि संसारे" ॥ [चं.प/गा.८३] सम्पा.
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org