SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ४४५ कायगुप्ततया शुभयोगप्रवृत्त्या कायगुप्त्या संवरमशुभयोगनिरोधं जनयति । संवरेणाभ्यस्यमानेन कायगुप्तः सर्वथा निरुद्धकायव्यापारस्सन् पुनः पापाश्रवाणां हिंसादीनां निरोधं करोति ॥५५॥ गुप्तयो यथाक्रमं मनःसमाधारणादेः स्युरिति ता आह मणसमाहारणयाए णं भंते जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ, एगग्गं जणयित्ता नाणपज्जवे जणयइ, नाणपज्जवे जणयित्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निज्जरेइ ॥५६॥ व्याख्या-हे भदन्त ! मनःसमाधारणतया जीवः किं जनयति ? गुरुराह हे शिष्य ! मनःसमाधारणतया, मनसः सं इति सम्यक्, आङिति मर्यादयाऽागमोक्तभावैर्धारणा व्यवस्थापना मन:समाधारणा, तया जीव एकाग्र्यं जनयति, तच्च जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुतबोधान् जनयति, तांश्च जनयित्वा सम्यक्त्वं विशोधयति, विशुद्धां तत्वरुचिं करोतीत्यर्थः, ततश्च मिथ्यात्वं निर्जरयति क्षपयति ।।५६।। वयसमाहारणयाए णं भंते जीवे किं जणयइ ? वयसमाहारणयाए णं जीवे वयसाहारणदंसणपज्जवे विसोहेइ, वयसाहारणदंसणपज्जवे विसोहित्ता सुलहबोहियत्तं निव्वत्तेइ, दुलहबोहियत्तं निज्जरेइ ॥५७॥ ___व्याख्या हे भदन्त ! वाक्समाधारणया जीवः किं जनयति ? गुरुराह हे शिष्य ! वाक्समाधारणया स्वाध्याय एव वाग्निवेशेन वाक्साधारणान्मतेरिव वचसो विषयान् दर्शनपर्यवान् वाक्साधारणदर्शनपर्यवान् सम्यक्त्वभेदान् विशोधयति, द्रव्यानुयोगाभ्यासेन स्याद्वादाभ्यासात्तद्विषयशङ्काद्यपनयनेन विशुद्धान् करोति, विशोध्य च तान् सुलभबोधित्वं निवर्तयति, प्रेत्यजिनधर्माप्तिर्बोधिरुच्यते, ततो भवान्तरे सुलभबोधित्वं करोति, तत एव दुर्लभबोधित्वं निर्जरयति ॥५७।। कायसमाहारणयाए णं भंते जीवे किं जणयइ ? कायसमाहारणयाए णं जीवे चरित्तपज्जवे विसोहेइ, चरित्तपज्जवे विसोहित्ता अहक्खायचरित्तं विसोहेइ, अहक्खायचरित्तं विसोहित्ता चत्तारि केवलिकम्मं से खवेइ, तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाण्णमंतं करेइ ॥५८॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy