________________
४४४
श्रीउत्तराध्ययनदीपिकाटीका-२ करणसत्ये योगसत्यमपि स्यादिति तदाह
जोगसच्चेणं भंते जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥
व्याख्या हे भदन्त ! योगसत्येन जीवः किं जनयति ? गुरुराह हे शिष्य ! योगसत्येन, योगा मनोवाक्कायास्तान् विशोधयति, क्लिष्टकर्मबन्धकत्वाऽभावान्निर्दोषान् करोति ॥५२॥
योगशुद्धिगुप्त्यान्वितस्य मनःसंवरणात् स्यादिति ता आह
मणगुत्तयाए णं भंते जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्गचित्तेणं जीवे मणगुत्ते संजमाराहए भवइ ॥५३॥
व्याख्या हे भदन्त ! मनोगुप्ततया जीवः किं जनयति ? गुरुराह हे शिष्य ! मनोगुप्ततया मनोगुप्त्या मनःसंवरेण जीव एकाग्यं धर्मैकतानचित्तत्वं जनयति, एकाग्रचित्तेन च जीवो गुप्तमना गुप्तमशुभाऽध्यवसायेषु गच्छद्रक्षितं मनो येनासौ गुप्तमनाः संयमाराधको भवति ॥५३।।
अथ वचोगुप्तिमाह
वयगुत्तयाए णं भंते जीवे कि जणयइ ? वयगुत्तयाए णं निव्विकारत्तं जणयइ, निव्विकारे णं जीवे वयगुत्ते अज्झप्पजोगसाहणगुत्ते यावि हवइ ॥५४॥
__ व्याख्या-हे भदन्त ! वाग्गुप्ततया जीवः किं जनयति ? गुरुराह हे शिष्य ! वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारं विकथाद्यात्मकवाग्विकाराभावं जनयति, निर्विकारे च सति, णं अलङ्कारे, जीवो वाग्गुप्तः सन् सर्वथा वाग्निरोधेन वाग्गुप्तिसमन्वितोऽध्यात्मं मनस्तस्य योगा धर्मध्यानाद्यास्तेषां साधनान्येकाग्रतादीनि, तैर्युक्तश्चापि भवति (पाठान्तरे-निव्वियारेणं जीवो वयगुत्तयं जणयइ) ॥५४॥
कायगुप्तिमाह
कायगुत्तयाए णं भंते जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं कायगुत्ते पुणो पुणो पावासवनिरोहं करेइ ॥५५॥ . व्याख्या हे भदन्त ! कायगुप्ततया जीवः किं जनयति ? गुरुराह हे शिष्य !
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org