________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४४३ सरलतां, यदन्यद्विचिन्तयन् लोकभक्तिरञ्जनादिनिमित्तं नान्यद्भाषते करोति वा, भाषर्जुकतां यदुपहासादिहेतोरन्यदेशभाषया अभाषणं तां, तथाऽविसंवादनं पराऽविप्रतारणं जीवो जनयति, अविसंवादनसम्पन्नतया कायर्जुकतादिना च जीवो धर्मस्याराधकः स्यात् , विशुद्धाशयत्वाद्भवान्तरेऽपि धर्माप्तेः ॥४८॥
सगुणस्यापि विनयं विना न सर्वफलाप्तिः, स मार्दवादिति तदाह
मद्दवयाए णं भंते जीवे किं जणयइ ? मद्दवयाए णं अणुसियत्तं जीवे जणइ, अणुसियत्तेणं जीवेणं मिउमद्दवसंपण्णे अट्ठमयट्ठाणाई निट्ठवेइ ॥४९॥
व्याख्या हे भदन्त ! माईवेन जीवः किं जनयति ? गुरुराह हे शिष्य ! माईवेन मानपरिहारेणाभ्यस्यमानेन, द्रव्यतो मृदुः, भावतश्चावनमनशीलः, तस्य भावो माईवं सौकुमार्य, तेन जीवोऽनुत्सेकत्वमनुद्धतत्वं जनयति, अनुत्सुकत्वेन च जीवो मृदुगुणेन मार्दवेन च सम्पन्नः सन्नष्टमदस्थानानि निष्ठापयति क्षपयति ॥४९॥ ___ मार्दवं सत्यस्थस्यैव स्यात् , तत्रापि भावसत्यं प्रधानमिति तदाह
भावसच्चेणं भंते जीवे किं जणयइ ? भावसच्चेणं भावविसोहि जणयइ, भावविसोहिए वड्डमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुट्टेइ, अब्भुट्टित्ता परलोगधम्मस्स आराहए भवइ ॥५०॥
व्याख्या-हे भदन्त ! भावसत्येन जीवः किं जनयति ? गुरुराह हे शिष्य ! भावसत्येन शुद्धान्तरात्मना पारमार्थिकाऽवितथत्वेन भावविशुद्धि विशुद्धाध्यवसायं ज्ञानं जनयति, भावविशुद्ध्या वर्द्धमानो जीवोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायां आराध्यतयाऽनुष्ठानेनाऽभ्युत्तिष्ठते, मुक्त्यर्थमुत्सहते, अभ्युत्थाय च परलोके भवान्तरे धर्मस्य (पाठान्तरे-परलोकस्य) आराधको भवति, प्रेत्ये जिनधर्माप्त्या विशिष्टभावाप्तेः ॥५०॥
भावसत्ये च करणसत्यं स्यादिति तदाह
करणसच्चेणं भंते जीवे किंजणयइ ? करणसच्चेणं करणसत्तिं जणयइ, करणसच्चे वट्टमाणो जीवो जहावाई तहाकारी यावि हवइ ॥५१॥
व्याख्या हे भदन्त ! करणसत्येन जीवः किं जनयति ? गुरुराह हे शिष्य ! करणे प्रतिलेखनादिक्रयायां सत्यं यथोक्तविधिनााराधनं करणसत्यं, तेन करणसत्येन जीवः करणशक्तिं क्रियासामर्थ्यं जनयति, करणसत्ये च वर्तमानो जीवः सूत्रार्थमधीयानो यथैव क्रियाकलापवदनशीलो यथावादी, तथैव करणशीलस्तथाकारी चापि भवति ॥५१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org