SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ४४२ श्रीउत्तराध्ययनदीपिकाटीका-२ रिति यावत्तां जनयति, अपुनरावृत्तिं] मुक्ति प्राप्त एव प्राप्तकः सन् शारीराणां रोगादीनां, मानसानां क्लेशादीनां दुःखानां भागी प्रापको न स्यात् ॥४४।। सर्वगुणसम्पन्नता नीरागद्वेषतया स्यादिति तामाह वीयरागयाए णं भंते जीवे किं जणयइ ? वीयराययाए णं णेहाणुबंधणाणि य तण्हाणुबंधणाणि य वुच्छिदइ, मणुण्णेसु सद्दफरिसरूवरसगंधेसु चेव विरज्जइ ॥४५॥ व्याख्या हे भदन्त ! वीतरागतया जीवः किं जनयति ? गुरुराह हे शिष्य ! वीतरागतया रागद्वेषाऽभावतो जीवः स्नेहस्य बन्धनानि, स्नेहमेव बन्धनानि वा, स्नेहः पुत्रादिषु, तृष्णाद्रव्यादिषु, ते एवानुगतानि बन्धनानि अनुबन्धनानि, तानि व्यवच्छिनत्ति, ततो मनोज्ञेषु शब्दादिषु सचित्ताऽचित्तेषु, गन्धेषु चैव विरज्यति, कषायप्रत्याख्यानेनैव गतार्थत्वेऽपि रागस्यैव सकलाऽनर्थमूलत्वज्ञप्त्यै वीतरागतायाः पृथगादानम् ॥४५।। वीतरागतायां तात्त्विकाः श्रमणगुणास्तेषां चाद्यव्रतपालनाय क्षान्तिराद्येति तामाहखंतीए णं भंते जीवे किं जणयइ ? खंतीए णं परीसहे जिणेइ ॥४६॥ व्याख्या हे भदन्त ! क्षान्त्या जीवः किं जनयति ? गुरुराह हे शिष्य ! क्षान्त्या जीवः परीषहान् वधबन्धनादीन् जयति ॥४६॥ क्षान्तिस्थेनापि मुक्ति विनाऽन्यव्रतानि दुःपाल्यानीति तामाह मुत्तीए णं भंते जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणेण य अत्थलोलाणं पुरिसाणं अपत्थणिज्जे भवइ ॥४७॥ व्याख्या-हे भदन्त ! मुक्त्या जीवः किं जनयति ? गुरुराह हे शिष्य ! मुक्त्या निर्लोभतयाऽकिञ्चनं नि:परिग्रहत्वं जीवो जनयति, अकिञ्चनेन चाऽर्थलोलाचौराद्यास्तेषामप्रार्थनीयः प्रार्थयितुमनभिलष्यः स्यात् ॥४७॥ लोभाद्विनाऽभाविनी मायेति तदभावे चार्जवत्वं स्यादतस्तदाह अज्जवयाए णं भंते जीवे कि जणयइ ? अज्जवयाए णं कायज्जुययं भावुज्जुययं भासुज्जुययं अविसंवायणं च जणयइ, अविसंवादणसंपण्णएणं जीवे धम्मस्स आराहए भवइ ॥४८॥ ___व्याख्या हे भदन्त ! आर्जवेन जीवः किं जनयति ? गुरुराह हे शिष्य ! सूत्रत्वादार्जवेन कायर्जुकतां कुज्जादि चेष्टनभ्रूविकाराद्याकृतेः प्राञ्जलतां, भावर्जुकतां चित्त Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy