________________
४४१
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
शैलेशी प्रायः प्रतिरूपतायां स्थविरकल्पे एव स्यादिति तामाह
पडिरूवयाए णं भंते जीवे किं जणयइ ? पडिरूवयाए णं लाघवियं जणयइ, लहुब्भूएणं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सव्वपाणभूयजीवसत्तेसु विससणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमणागये यावि भवइ ॥४२॥
व्याख्या हे भदन्त ! प्रतिरूपतया जीवः किं जनयति ? गुरुराह हे शिष्य ! प्रति सादृश्ये, ततः प्रतीति स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स प्रतिरूपः, तद्भावः प्रतिरूपता, तयाऽधिकोपकरणत्यागेन जीवो लाघवमस्यास्तीति लाघवी, तद्भावो लाघविता, तान् द्रव्यतः स्वल्पोपकरणत्वेन, भावतस्त्वप्रतिबद्धतया जनयति, लघूभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पादिवेषेण व्रतीति ज्ञायमानत्वात् प्रशस्तलिङ्गो जीवरक्षणहेतुरजोहरणादिवान् , विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात् , सत्त्वं समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारत्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियः, विपुलेन नैकभेदेन तपसा समितिभिश्च सर्वविषयत्वेन विपुलाभिः समन्वागतो युक्तो विपुलतपःसमितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां सामस्त्यमुक्तं, इह तु सार्वत्रिकत्वमिति न पौनरुक्त्यम् ॥४२॥
प्रतिरूपताया वैयावृत्त्यादेव विशिष्टफलाप्तिरिति तदाह
वेयावच्चेणं भंते जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगोत्तं कम्मं निबंधइ ॥४३॥ - व्याख्या हे भदन्त ! वैयावृत्त्येन जीवः किं जनयति ? गुरुराह हे शिष्य ! वैयावृत्त्येन जीवस्तीर्थकरनामगोत्रं कर्म निबध्नाति, कुलादिकार्येषु व्यापारवान् व्यावृत्तस्तद्भावो वैयावृत्त्यम् ॥४३॥
वैयावृत्त्यवान् सर्वगुणभाक् स्यादिति सर्वगुणसम्पन्नतामाह
सव्वगुणसंपन्नयाए णं भंते जीवे किं जणयइ ? सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयइ, अपुणरावत्तिपत्तए णं जीवो सारीरमाणसाणं दुक्खाणं णो भागी भवइ ॥४४॥
व्याख्या हे भदन्त ! सर्वगुणसम्पन्नतया जीवः किं जनयति ? गुरुराह हे शिष्य ! सर्वे गुणा ज्ञानाद्यास्तत्सम्पन्नतया जीवोऽपुनरावृत्तिं [पुनरिहागमनाभावो मुक्ति
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org