________________
श्रीउत्तराध्ययनदीपिकाटीका - २
एकीभावमेकत्वं जनयति, एकीभावभूतश्चैकत्वप्राप्तश्च जीव एकाग्र्यं एकालम्बनत्वं भावयन्नऽभ्यस्यन् अल्पशब्दोऽशब्द इत्यर्थः, अल्पझञ्झोऽल्पवाक्कलहः, अल्पकलहः, अरोषः, अल्पकषायोऽविद्यमानकषायो, अल्पमविद्यमानत्वमिति स्वल्पापराधिन्यपि त्वमेव सदा करोषीत्यादि पुनः पुनः प्रलपनं न करोति । पुनः साहाय्यप्रत्याख्यानेन संयमबहुलो भवति, संवरबहुलो भवति, समाधिबहुलो भवति, समाहितो ज्ञानादिसमाधिमांश्च भवति ॥ ३९ ॥
इदृक्षान्ते भक्तप्रत्याख्याता स्यादिति तत्प्रत्याख्यानमाह
४४०
भत्तपच्चक्खाणं भंते जीवे किं जणयइ ? भत्तपच्चक्खाणेणं अगाइं भवसयाई निभइ ॥ ४० ॥
व्याख्या–हे भदन्त ! भक्तप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! भक्तप्रत्याख्यानेन भक्तपरिज्ञादिनाऽनेकानि भवशतानि निरुणद्धि, शुद्धहढा - ध्यवसायेन संसाराऽल्पत्वाऽापादनात् ॥४०॥
सर्वप्रत्याख्यानश्रेष्ठा शैलेशी, तां सद्भावप्रत्याख्यानमाह-
सब्भावपच्चक्खाणेणं भंते जीवे किं जणयइ ? सब्भावपच्चक्खाणेणं अनियट्टिं जणयइ, अनियट्टिपडिवन्ने य अणगारे चत्तारि केवलिकंमंसे खवेइ, तंजहा - वेयणिज्जं आउयं नामं गोत्तं तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुक्खाणमंतं करेइ ॥ ४१ ॥
व्याख्या - हे भदन्त ! सद्भावप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! सद्भावेन सर्वथा पुनः करणाऽसम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः, न विद्यते निवृत्तिर्मुक्तिमप्राप्य निवर्त्तनं यस्मिंस्तदनिवृत्तिरूपं शुक्लध्यानतुर्यभेदं जनयति । ( पाठान्तरे तु - निवृत्तिं द्विसमयस्थितिकस्यापि वेद्यकर्मणो बन्धव्यावृत्तिं) प्रतिपन्नाऽनिवृत्तिकश्च (पाठान्तरे तु - प्रतिपन्नाऽनिवृत्तश्च) अनगारश्चत्वारि केवलिनो, अंशशब्दस्य सत्पर्यायत्वात्सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणि क्षपयति, तद्यथा-वेदनीयकर्म १ आयुः कर्म २ नामकर्म ३ गोत्रकर्म ४ च । एतेषां चतुर्णामपि कर्मणां क्षयं कृत्वा ततः पश्चात् सिद्ध्यति सकलार्थं साधयति, बुद्ध्यति ज्ञाततत्वो भवति, मुच्यते कर्मभ्यः, परिनिर्वाति सम्मतात् कर्मसन्तापाऽभावाच्छीतलो भवति, सर्वदुःखानां चान्तं करोति ॥४१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org