________________
एकोनत्रिंशं सम्यक्त्वपराक्रमाख्यमध्ययनम्
४३९
व्याख्या - हे भदन्त ! कषायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति, प्रतिपन्नवीतरागभावश्च जीवः समसुखदुःखो भवति ||३६||
निःकषायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदाह
जोगपच्चक्खाणेणं भंते जीवे किं जणयइ ? जोगपच्चक्खाणेणं अजोगत्तं जणयइ, अजोगीणं जीवे नवं कम्पं न बंधइ, पुव्वबद्धं निज्जरे ॥३७॥ व्याख्या - हे भदन्त ! योगप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! योगा मनोवाक्कायव्यापाराः, तत्प्रत्याख्यानेन तन्निरोधेनाऽयोगित्वं शैलेशीत्वं जीवो जनयति, अयोगो जीवश्च नवं कर्म न बध्नाति, पूर्वबद्धं भवोपग्राहिककर्म चतुष्कं च निर्जरयति क्षपयति ॥३७॥
योगप्रत्याख्याने शरीरं प्रत्याख्यातमेव, तथापि तदाधारत्वान्मनोवाग्योगयोः, अतः शरीरप्राधान्यज्ञप्त्यै तत्प्रत्याख्यानमाह
सरीरपच्चक्खाणं भंते जीवे किं जणयइ ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ, सिद्धाइसयगुणत्तसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८ ॥
व्याख्या - हे भदन्त ! शरीरप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! शरीरप्रत्याख्यानेन देहव्युत्सर्जनेन जीवः सिद्धातिशयगुणत्वं निर्वर्त्तयति, कोऽर्थः ? सिद्धानां येऽतिशयगुणाः सर्वोत्कृष्टगुणास्तेषां भावः सिद्धातिशयगुणत्वं 'न कृष्णो न नीलः ' इत्यादिगुणत्वं निर्वर्त्तयति जनयति । सिद्धातिशयगुणत्वसम्पन्नश्च जीवो लोकाग्रं मुक्तिपदमुपगतः सन् परमसुखी भवति ॥३८॥
सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्यान एव सुकराणि स्युरिति तदुच्यतेसहायपच्चक्खाणं भंते जीवे किं जणयइ ? सहायपच्चक्खाणेणं एगीभावं जणयइ, एगीभावं भूएणं जीवे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवइ ॥३९॥
व्याख्या–हे भदन्त ! सहायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! सहायाः साहाय्यकारिणो यतयः, तत्प्रत्याख्यानेन योग्यभाविनाऽभिग्रहविशेषेण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org