________________
४३८
श्रीउत्तराध्ययनदीपिकाटीका-२ मकुर्वाणोऽनास्वादयन् वाऽभुञ्जानोऽतर्कयन्नऽस्पृहयन्नऽप्रार्थयमानोऽनभिलषन् , 'दोच्चंति द्वितीयां सुखशय मुपसम्पद्य विहरति, एवंविधरूपत्वात्त्वस्य, यतः स्थानाङ्गे"अहावरे दोच्चा सुहसेज्जा, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइओ समणो सएणं लाभेणं संतूसइ, परस्स लाभं न आसाएइ, नो तक्के" इत्यादि ॥३३॥
सम्भोगप्रत्याख्यानिन उपधिप्रत्याख्यानं स्यादित्येतदाह
उवहिपच्चक्खाणेणं भंते जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिएणं जीवे निक्कंखे उवहिमंतरेण य न संकिल्लिस्सइ ॥३४॥
व्याख्या-हे भदन्त ! उपधिप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ! उपधिप्रत्याख्यानेनेति, उपधे रजोहरणमुखवस्त्रिकावोंपकरणस्य प्रत्याख्यानेन, परिमन्थः स्वाध्यायादिक्षतिः, तदभावोऽपरिमन्थस्तं करोति । निरुपधिको जीवो नि:काक्षो वस्त्रादीच्छारहितः सन् [उपधिमन्तरेण] न च सङ्क्लिष्यति । उक्तं हि"तस्स णं भिक्खुस्स णो एवं भवइ, परिजुन्ने मे वत्थे, सूई जाइस्सामि सन्धिस्सामि" इत्यादि ॥३४॥
उपधिप्रत्याख्यातुर्जिनकल्पिकादेरेषणीयाऽलाभे बहूपवासाः स्युरत आहारप्रत्याख्यानमाह
आहारपच्चक्खाणेणं भंते जीवे किं जणयइ ? आहारपच्चक्खाणेणं जीवियासंसप्पओगं वोच्छिदइ, जीवियासंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ॥३५॥
व्याख्या-हे भदन्त ! आहारप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह हे शिष्य ? आहारप्रत्याख्यानेनाऽनेषणीयभक्तपानत्यागेन, जीविते आशंसा अभिलाषस्तस्याः प्रयोगः करणं तं, [पठन्ति च] 'जीवियासविप्पओगं' जीविताशाया विप्रयोगं विविधव्यापारं वा व्युच्छिनत्ति, तं व्युच्छिद्य जीव आहारमन्तरेण न सङ्क्लिश्यति, विकृष्टतपोऽनुष्ठानेऽपि न बाधामनुभवति ॥३५॥
एतत्प्रत्याख्यानत्रयं कषायाऽभावे फलवदिति तत्प्रत्याख्यानमाह
कसायपच्चक्खाणेणं भंते जीवे किं जणयइ ? कसायपच्चक्खाणेणं वीयरागभावं जणयइ, वीयरागभावं पडिवण्णे य णं जीवे समसुहदुक्खे भवइ ॥३६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org